SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 184 सटीकाद्वैतदीपिकायाम् तस्यानधिष्ठानत्वात् / अथ वाऽन्तःकरणोपहितसाक्ष्येवाधिष्ठानं, भेदावभासस्त्वारोपितभेदविषय इति न विरोधी। विच्छिन्नदेशत्वादिकं तु तत्रारोप्यत इति न विरुध्यते / तत्रापि स्वप्नो मूलाज्ञानजन्य एव / अन्तःकरणाधिष्ठानचंतन्यस्याज्ञानाविषयत्वात्। ननु मिथ्यात्वनिश्चयो बाधः, न तु सविलासाविद्यानिवृत्तिः, स च स्वप्नस्येदानीमस्तीति चेत् / न, वियदादिप्रपञ्चेऽपि तत्सत्त्वात् / न च युक्तयनुसन्धान विना बाध्यमानत्वं तत् / नभोनीलिमचन्द्रप्रादेशिकत्वादौ तदभावात् / अत एव प्रमातरि सत्यबाध्यमानत्वं व्यावहारिकत्वं, तस्मिन् सति वाध्यमानत्वं प्रातीतिकत्वमिति प्रत्युक्तम् / नापि त्रिचतुरकक्ष्याविश्रान्तत्वं व्यावहारिकत्वं, व्यावहारिकातिरिक्तजडत्वं प्रातीतिकत्वम् / त्रिचतुरकक्ष्याविश्रान्तियदि त्रिचतुरक्षणसत्ता तदा स्वप्नगजादावतिव्याप्तिः / इच्छादावव्यावहारिकत्वाप्तिश्च / यदि त्रिचतुरयुक्तिसहत्वं तदा शुक्तिरजतादेरनिर्वचनीयत्वादिविषयबयुक्तिसहत्वादतिव्याप्तिः। यदि त्रिचतुरः पुरुषस्तथा गृह्यमाणत्वम् / सुखादावव्याप्तः, प्रतिपुरुषप्रपञ्चभेदवादे चैतन्यमधिष्ठानमित्यर्थः। स्वप्ने देशान्तरादावपि गजाद्युपलम्भादुत्थितस्य तद्विषयापरोक्षज्ञानाभावात्तदज्ञाननिवृत्तिरप्य सुपपन्नेति द्रष्टव्यम् / अनवच्छिन्नचैतन्यस्य स्वप्नाधिष्ठानत्वे तस्याऽऽवृतत्वेन तद्गतगजादेर्मेर्वादिवदस्मदपरोक्षता न स्यात् / अन्यथा पुरुषातरीयस्वप्नस्यापि पुरुषान्तरं प्रत्यपरोक्षता स्यादित्यरुच्या पक्षान्तरमाह-अथ वेति / अहङ्कारोपहितचैतन्यस्यैवानावृतस्वभावत्वेन जीवसाक्षित्वात् सुषुप्तावपि सूक्ष्मरूपेणाहङ्कारस्य सत्त्वात्तत्राध्यस्तगजादेः स्वतः साक्षिसम्बन्धात्तं प्रत्यपरोक्षत्वं, पुरुषान्तरीयस्वप्नस्य तु तत्साक्षिसंबन्धाभावात् न तं प्रत्यपरोक्षतेति भावः / प्रमातृचैतन्ये गजाद्यारोपेऽहं गज इत्यवभासः स्यादित्याशङ्कय तभेदस्यापि तत्रारोपितत्वान्मैवमित्याहभेदेति / तर्हि मयि गज इति प्रतीयात् नायं गज इत्याशङ्कय वाह्यदेशस्य तद्भेदस्य तत्स्वातन्त्र्यस्य तद्गजसंसर्गस्य च तत्र मायाविजृम्भितत्वान्मैवमित्याह-विच्छिन्नेति / अस्मिन् पक्षेऽन्तःकरणावच्छिन्नेऽवस्थाज्ञानाभावाद् दुःखादिवन्मूलाज्ञानपरिणाम एव स्वप्न इत्याह-तत्रापीति / द्वितीयं शङ्कते-नन्विति / व्यवहारकाले स्वप्नस्य मिथ्यात्वनिश्चयान्नोक्तातिव्याप्त्यादिरित्याह-स चेति / किं मिथ्यात्वनिश्चयमात्रं बाधः, उत युक्त्यनुसन्धान विना तन्निश्चयः ? / आद्ये दृश्यत्वादिहेतुभिवियदादेरपि व्यवहारसमये मिथ्यात्वनिश्चयसत्त्वात्तत्रातिव्याप्तिरव्याप्तिश्चेति दृषयति-न वियदादीति / द्वितीयं दूषयति-। चेति / तत्प्रातीतिकत्वं नभोनीलिमादेर्युक्तयनुसन्धान विना मिथ्यात्वनिश्चयाभावात्तत्राव्याप्तिरिभ्यर्थः / उक्तयुक्त्यैव लक्षणा
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy