SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः 183 ननु सुखादिरपि प्रातीतिक एवेति चेत् न / तथा सति रजतादेरिवेच्छादेरपि स्वोचितकार्याजनकत्वप्रसङ्गात् / सुखार्थं यागाद्यननुष्ठानप्रसङ्गाच्च / शुक्तिरजतादाविव कस्यापि तत्र मिथ्यात्वबुद्धयभावाच्च / न च ज्ञाननियतसत्ताकत्वं प्राती तिकत्वव्याप्तम् / अप्रयोजकत्वात्, उक्तप्रतिकूलतर्कपराहतत्वाच्च / नापि व्यवहारकाले बाध्यत्वं प्रातीतिकत्वं, तत्कालेऽबाध्यत्वम् व्यावहारिकत्वम् / स्वप्नेऽव्याप्त्यतिव्याप्तेः, प्रातीतिकस्यापि ब्रह्माज्ञानजन्यस्य तस्य व्यवहारकालेऽवाध्यत्वात् / स्वप्नस्यानवच्छिन्नचैतन्याधिष्ठानस्य मूलाज्ञानकार्यत्वात् / न च स्वप्नस्य गजाद्यभाववद्देशावच्छिन्नमधिष्ठानमिति व्यवहारकाले एव तज्ज्ञानसंभवाद्वाध इति वाच्यम् / बाह्यदेशसामान्यस्य स्वप्ने प्रहणासंभवेन लक्षणस्यापि दोषमाह-द्वितीयस्येति / अव्याप्तिमुपपादयति--सुखादेरिति / स्वसत्ताकाले कदापि स्वविषयाज्ञानाभावादित्येवकारार्थः / __ आज्ञानसुखादेरपि प्रातीतिकत्वान्नोक्ता तिव्याप्त्यव्याप्ती इति शङ्कते-नन्विति / स्वगतधर्मावच्छिन्नकारणतानिरूपितकार्यतावच्छिन्नं कार्य स्वोचितकार्य तदजनकल्यं प्रति प्रातीतिकत्वस्य ब्याप्यत्वादिच्छादेरपि प्रातितिकत्वे तद्व्यापकमपि स्यादित्याहन तथेति / किं च प्रातीतिकस्य क्रियासाध्यत्वाभावात् सुखादेरपि तथात्वे तन्न स्यादित्याह-सुखार्थमिति / प्रातिभासिकस्य श्रुतिमनपेक्ष्यैव मिथ्यात्वनिश्चयदर्शनादज्ञानादेश्च तदभावनियमान्न प्रातीतिकत्वमित्याह--शुक्तीति / ननु स्वविषयज्ञानकाले एव सत्त्वं रजतादौ प्रातीतिकत्वेन व्याप्तम् / ततश्च व्यायवत्यज्ञानादौ व्यापकं प्रातीतिकत्वमावश्यकमित्याशङ्कमानुकूलताभावात् प्रतिकूलतर्कबाधादुत्पन्नविनष्टे तादृशे घटे व्यभिचाराच्च नैवं व्याप्तिरित्याह-न चेति / व्यवहारकाल इति / अज्ञानादेर्व्यवहारकाले बाधाभावानोक्तातिव्याप्त्यादिरिति भावः / अत्र किं सविलासाऽविद्यानिवृत्तिर्बाधः / मिथ्यात्वनिश्चयो वा ? / आद्ये आह-स्वप्नेति / प्रातीतिकलक्षणस्याव्याप्तेर्व्यावहारिकलक्षणस्यातिव्याप्तेरित्यर्थः। तदुभय सुपपादयति-प्रातीतिकस्यति / अबाध्यत्वादिति / स्वप्नरूपेण परिणताज्ञानानिवृत्तरित्यर्थः / ननु जाग्रत्कालात्स्वप्नमूलमज्ञानमपि निवर्त्तता. मित्याशङ्कय मूलाज्ञानस्यैव स्वप्नोपादानत्वात्, तस्य ब्रह्मज्ञानादन्यतो निवृत्त्ययोगादित्यभिप्रेत्याह-स्वप्नस्येति / ननु स्वप्नस्य नानवच्छिन्नचैतन्यमधिष्ठानं येन मूलाज्ञानं तदुपादानं स्यात्, किं तु यत्र देशे स्वप्नगजादिरतुभूयते तदवच्छिन्नचैतन्यमेव तदधिष्ठानम् / तथा च तद्गतावस्थाज्ञानमेव गजाधुपादानमिति जाग्रति तज्ज्ञानात्सविलासाज्ञाननिवृत्तिरुपपद्यत इति शङ्कामपवदति-न चेति / स्वप्नेऽनारोपितबाह्यदेशस्यैवाभावादिति भावः / उक्तमङ्गीकृत्याप्याह-बाह्येनि / सामान्यतो गृह्यमाणस्यैवाधिष्ठानत्वाद्बाह्यदेशस्य स्वप्ने तथा ग्रहणासंभवान्न तदवच्छिन्न
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy