________________ 182 सटीकाद्वैतदीपिकायाम् मानम् / प्रतिबन्धकेन विना स्वप्रकाशात्मकब्रह्मस्वरूपानवभासायोगात् / न च ब्रह्मणो जीवभेदादेव तदनवभासः / तस्य निरस्तत्वात् / अविद्यातिरिक्तेन प्राप्तावरणायोगात्। आवरणस्वरूपं च वक्ष्यते / एवं मोक्षशास्त्रोपदेशानुपपत्तिरपि भावरूप ज्ञाने मानम् / तन्निवृत्त्यतिरिक्तोपदेशसाध्यप्रयोजनाभावादित्युक्तम् / तस्मात्प्रत्यक्षानुमानागमार्थापत्तिभिर्भावरूपाज्ञानं सिद्धम / व्यावहारिकत्वनिर्वचनम् ___एतच्चाज्ञानं व्यावहारिकं न प्रातीतिकम् / स्यादेतत्--किमिदं व्यावहारिकत्वं प्रातीतिकत्वं वा ? / न तावत् स्वसत्ताव्यापकज्ञानविषयत्वं स्वज्ञानव्यतिरेकव्यापकव्यतिरेकप्रतियोगित्वं वा प्रातीतिकत्वं, स्वसत्ताकालीनाभावप्रतियोगिज्ञानविषताकत्वं व्यावहारिकत्वम् / आद्ययोरज्ञानसुखादावतिव्याप्तेः द्वितीयस्य तत्रैवाव्याप्तेः / सुखादेः साक्षिणा ज्ञायमानस्यवोत्पत्तः / पत्तिरपि तत्र मानमित्याह--एवमिति / अनुपपत्तिमेवोपपादयति--प्रतिबन्धकेनेति / आवारकेणेत्यर्थः।स्वप्रकाशस्यापि ब्रह्मणो वस्तुतो जीवभिन्नत्वादनवभास इत्यन्यथोपपत्ति निराकरोति-न चेति / प्रत्यगभिन्नस्यापि ब्रह्म गस्तमोगुणादिनाऽऽवृतत्वादनवभास इत्याशङ्क्याविद्यातिरिक्ततमोगुणे मानाभावात्कर्मणश्व प्राप्तावारकत्वनिरासादित्यभिप्रेत्याह-अविद्येति / नन्वविद्याया वा कथमावारकत्यं तत्कृतावरणस्य दुनिरूपत्वादित्याशक्यात्रैवान्त्यवादे वक्ष्यत इत्याह-आवरणेति / मोक्षशास्त्रजन्यज्ञानस्य सप्रयोजनत्वानुपपत्तिरूपार्थापत्तिरपि तत्र मानमित्याह-एवमिति / दुःखध्वांसादिरेव ज्ञानफलमित्याशक्य तद्बहुधा निरस्तमित्याह-तन्निवृत्तीति / इयता प्रबन्धेनोपपादितं भावरूपाज्ञानं निगमयति--तस्मादिति | अनिर्वचनीयाज्ञानस्य व्यावहारिकत्वादिसन्देहे निर्णयमाह-एतच्चेति / अत्र व्यावहारिकलां प्रातीतिकत्वं च न सत्त्वान्तरं, किं तु स्वतः सत्ताशूत्यानामधिष्ठानसत्तयैव सद्वदवभासमानानां जडानामिदं व्यावहारिकम्, इदं प्रातीतिकमिति व्यवस्थितपरीक्षकव्यवहारायावान्तरौलक्षण्यमात्रम्। तच्च गैलण्यं स्वभिमतमेवेति वक्तुं तत्र स्वयूथ्येन संभावितं तत्पूर्वपशिमुखेनोद्भाव्य दूषयितु सुपक्रमते-स्यादेतदित्यादिना / स्वप्तत्तेति / यदा स्वसत्ता तदा स्वविषयज्ञानमित्येवं व्यापकज्ञानविषयत्वमित्यर्थः / स्वज्ञानेति / यद्विषयज्ञानाभावो यदा तदा तद्विषयाभाव इत्येवं व्यापकाभावप्रतियोगित्वं रजतादेः प्रातीतिव त्वमित्यर्थः / स्वसत्तेत / स्वसत्ताकाले यदा कदाचिद्विद्यमानाभावप्रतिप्रतियोगि यत् ज्ञानं तद्विषयत्वयोग्यत्वं घटादेर्व्यावहारिकत्वमिति नेति पूर्जेणान्वयः / तन हेतुमाह-आद्ययोरिति / उक्तप्रातिभासिकत्वलक्षणयोरित्यर्थः / अज्ञानादिसाक्षिणस्तत्सत्ताव्यापकत्वात्स्वविशेषितसाक्ष्यभावकाले स्वस्याप्यभावाच्चेत्यर्थः / व्यावहारिक