________________ द्वितीयः परिच्छेदः 11 सत्ताकत्वात् / ब्रह्मणो निर्विकारत्वश्रुतिविरोधप्रसङ्गात्। चिदानन्दरूपस्य ब्रह्मणोऽविद्यां विना जडदुःखात्मकप्रपञ्चतादात्म्यानुपपत्तश्च, ब्रह्ममात्रकार्यत्वे जडत्वस्याऽऽकस्मिकत्वप्रसङ्गाच्च / न च विकारस्याविद्यापरिणामत्वे ब्रह्मोपादानत्दभङ्गप्रसङ्ग इति वाच्यम्। तस्याप्युपादानत्वात्। सत्यानृतात्मकप्रपञ्चस्य सत्यानतोपादानकत्वनियमात् / द्विविधमुपादानत्वं परिणामित्वं तत्सत्ताप्रवत्वं च / तत्राद्यमज्ञानस्य द्वितीयं तु सत्यज्ञानानन्दात्मकब्रह्मणः। यद्यदनुविद्धं जायते तत्तदुपादानं वियदादिकार्यवर्गश्चैतन्यसत्तानुविद्धो जडानुविद्धश्च जायत इत्युभयस्याप्युपादानलक्षणलक्षितत्वाच्च / अत एव कार्यस्य ब्रह्मोपादानत्वे ब्रह्मसमानसत्ताकत्वं स्यादिति निरस्तम् / परिणामस्य परिणामिसमानसत्ताकत्वस्यैव वक्तव्यत्वात् तदुभयसत्ताया ब्रह्मात्मकत्वाच्च / एवमात्मनः स्वप्रकाशबह्मस्वरूपानवभासानुपपत्तिरपि भावरूपाज्ञाने ब्रह्मणः स्वत उपादानत्वे विकारित्वापातेन कौटस्थ्यहानि रित्याशङ्क्य तद्विकारस्यापारमार्थिकत्वात् तदुपादाने न निर्विकारत्वहानिरित्याह-न चेति / मिथ्यापरिणाम्यज्ञानाभावे भावकार्यस्य परिणामिनं विनाऽनुपपत्तेः ब्रह्मण एव तत्परिणामित्वं वाच्यम् / ततश्च परिणामस्य परिणामिसमसत्ताकत्वाद्विकारस्य पारमार्थिकत्वापातात् ब्रह्मणो निर्विकारत्वश्रुतिपीडा स्यादिति परिहरति-न सन्मात्रेति / किं च सन् घट इति सदभेदानुभवात्कार्यकारणयोः संबन्धान्तरानिरूपणाच्च तयोस्तादात्म्य. मावश्यकम्। तस्य च वास्तवस्थासंभवादनिर्वचनीयमेव तदिति तदुपपादकतयाऽपि तादृश्य विद्याऽभ्युपेयेत्याह-चिदानन्देति / स्वप्रकाशब्रह्ममात्रोपादानत्वे प्रपञ्चे जडत्वमपि न स्यादित्याह-ब्रह्मेति / अविद्याया जगदुपादानत्वे तयैव तदुत्पत्तिसंभवात्तत्र ब्रह्मणोऽप्युपादानत्वं गोरवादयुक्तमित्याशङ्ख्य ब्रह्मोपादानत्वस्यापि श्रुत्यादिप्रमितत्वेन प्रामाणिकत्वान्नोक्तदोष इत्याह-न चेति / अविद्याकार्येऽपि सत्तादात्म्यानुभवात्तदुपादानत्वमावश्यकमित्याह-सत्यानृतेति / अविद्यावद् ब्रह्मणोऽप्युपादानत्वे तद्वदेव विकारित्वापात इत्याशय परिणामिन एव सर्वत्र विकारित्वं न त्वधिष्ठानस्येत्यभिप्रेत्योपादानद्वैविध्यमाह-द्विविधमिति / किं चाविद्याब्रह्मणोरुभयोरप्युपादानल भणवत्त्वात् उपादानत्वमावश्यकमित्याह-यद्यदनुविद्धमिति / यत्कारणतादात्म्यापन्नमित्यर्थः। तथा च न रूपादातिव्याप्तिः। प्रपञ्चस्य मिथ्याज्ञानोपादानत्वेन मिथ्यात्वं चेत् सत्यब्रह्मोपादानतया सत्यत्वं कि न स्यादिति चोद्यमप्ययुक्तमित्याह- अत एबेति / अतःशब्दार्थमाह-परिणामस्येति / शुक्तिरजतादेरधिष्ठानसमसत्ताकत्वाभावादित्यर्थः / ब्रह्मस्वरूपसत्ताया एवाज्ञानतत्कार्ययोरवभासादज्ञानवत्तत्कार्यमपि मिथ्यवेत्यभिप्रेत्याह-तदुभयेति / जीवस्य स्वप्रकाशब्रह्मस्वरूपाभेदसंशयाद्यन्यथाऽनुपपत्तिरूपार्था