________________ 180 सटीकाद्वैतदीपिकायाम् वाच्यम् / तव मते स्वप्नस्येव वैशेषिकादिमते सुखादेरिव सिद्धान्तेऽन्तःकरणस्येवेश्वरकर्तृकस्याप्यसाधारणत्वाविरोधात, सुखादेरिव रजतादेरपि वृत्तिमदन्तःकरणावच्छेदेन प्रमातृचैतन्याभिन्नचैतन्यगतत्वाच्च / जीवकर्तृकत्वेऽपि न दोषः। अविद्याकार्ये कृतिन हेतुरिति न तदुपादानगोचरकृत्याश्रयत्वं किं तु कार्यानुकूलोपादानेक्षितृत्वम् / तच्चाधिष्ठानसामान्यज्ञानाश्रये जीवेऽप्यस्तीति / ब्रह्मणो जगतुपादानत्वेनाज्ञानकल्पनम् एवं ब्रह्मणो जगदुपादानत्वं श्रुतं भावरूपाज्ञानं कल्पयति / निरवयवस्य निर्विकारस्य ब्रह्मणः स्वतस्तदसंभवात् / न च प्रकृतिरेवोपादानं न ब्रह्मेति वाच्यम्। ब्रह्मोपादानत्वस्योपपादयिष्यमाणत्वात् / स्वतन्त्रप्रकृतौ मानाभावाच्च / अस्तु ब्रह्म उपादानम्, अविद्या किं करिष्यति ? / न च निष्कलस्य ब्रह्मणो विकारानुपपत्तिः / तात्विकविकाराभावेऽपि कल्पितविवर्तीधिष्ठानत्वोपपत्तेरिति चेत् / न, सन्मात्रब्रह्मकार्यस्य कल्पितत्वानुपपत्तेः। कार्यस्य परिणामिसमानकर्तृकत्वेऽप्यसाधारण्यवच्छुक्तिरजतादेरपीश्वरकर्तृकल्वेशी तदुपपत्तिरित्यर्थः / स्वमतेऽप्यसाधारण्यमुपपादयति-सखादेरिवेति / दुःखादेर्यथा तत्तदन्तःकरणोपहितासाधारणप्रमातृचैतन्येऽध्यासादसाधारण्यम्, एवमिदमाकारवृत्तिरूपेण परिणतान्तःकरणोपहितत्वेन प्रमातृचैतन्याभेदेनाभिव्यक्ते विषयावच्छिन्नचैतन्ये रजतादेरध्यासादसाधारण्यमित्यर्थः // __ जीवकर्तृकत्वपक्षमप्युपपादयति--जीबेति / तदनुकूलकृत्यभावात् जीवो न कर्तेत्युक्तं दूषयति-अविद्येति / चेष्टावत्कृतिरपि कार्यविशेषे हेतुः न तु तद्वत्त्वं कतृत्वमिति तृतीये वक्ष्यते इति भावः। किन्तर्हि कतृत्वमित्यत आह-किं त्विति / कार्यानुकूलं यदुपादानेक्षितृत्वं तदेव कर्तृत्वमित्यर्थः / इदं च कर्तृत्वं जीवस्यापि रजतादावस्तीत्याह-तच्चेति / श्रुतार्थानुपपत्तिरपि भावरूपाज्ञाने मानमित्याह-एवमिति / अविद्यां विना ब्रह्मण उपादानत्वानुपपत्ति स्फोरयतिनिरवयवस्येति / स्वतस्तदसंभवादिति / परिणामितयोपादानत्वासंभवादित्यर्थः / अधिष्ठानतयोपादानत्वं तु मिथ्यापरिणाम्यविद्यां विनाऽनुपपन्नमिति भावः। “यतो वा इमानि भूतानि जायन्ते' इत्यादेब्रह्मस्तुत्यर्थत्वात् स्मृतिप्रसिद्धा प्रकृतिरेव जगदुपादानमित्यत आह-न चेति / श्रुतावजामायाऽव्यक्तादिशब्दानामविद्यापरत्वात्स्मृतेश्च मूलप्रमाणसापेक्षत्वेन स्वातन्त्र्येण कस्य चिदर्थस्यासाधकत्वात् स्वतन्त्रप्रकृतिरेवाप्रामाणिकी, कुतस्तस्या जगदुपादानत्वमित्याह--स्वतन्त्रेति / ब्रह्मोपादानत्वमभ्युपेत्याविद्यायास्तत्रोपयोगाभावात्तदर्थं सा न कल्पनीयेति चोदयति-अस्त्विति /