________________ द्वितीयः परिच्छेदः 179 यत्तु रजतज्ञानस्यात्माऽन्तः करणं वोपादानमिति, तन्न। अन्तःकरणस्य केवलस्य जडत्वेन ज्ञानानाश्रयत्वात्, इन्द्रियसंप्रयोगासहकृत्वाच्च / न च मिथ्यार्थे ज्ञानमात्रसमयतिनि चक्षुरादिसंयोगोऽस्ति / एवमात्मनोऽभ्रान्तत्वप्रसङ्गात्, अन्त:करणगतभ्रान्तेरात्मन्यारोपेऽपि, तस्याप्यारोपस्यान्तःकरणगतत्वादात्मन्यवभासायोगात् / आत्मनश्च ज्ञानात्मनो ज्ञानसमवायित्वस्य साक्षिविवेके निरस्तत्वात् / रजतज्ञानसत्यत्वनिरासः यत्तु रजतज्ञानस्य सत्यत्वेऽपि नार्थस्य सत्यत्वमिति, तदसत् / अर्थस्यासत्यत्वे तत्संप्रयोगाजन्यस्य जन्यप्रत्यक्षरजतज्ञानस्य सत्यत्वायोगात् / क्लुप्तकारणं विना भवतः कार्यस्य स्वप्नरथादिवन्मिथ्यात्वनियमात् / न च-एवं शुक्तिरजतस्य सोपादानत्वे सकर्तृकत्वापत्तिः। न च तत्रेश्वरः कर्ता। वियदादेरिव साधारणत्वप्रसङ्गात् / न च जीवः। तस्य तदुपादानगोचरकृत्यभावात्, इति भावादित्यभिप्रेत्य तदभ्युपगमे बाधकमाह अन्यथेति / एवं स्वमतमुपपाद्य परमतं दूषयितुमनुवदति- यत्त्विति / तत्र तावदन्तःकरणं न ज्ञानाश्रयः जडत्वाद्धटवत्, इतरथा तस्य करणत्वानुपपत्तेरित्यभिप्रेत्याह--अन्तःकरणस्येति / भ्रान्तिज्ञाने कारणाभावेन तदसम्भवादपि नान्तःकरणं तदुपादानमित्याह-इन्द्रियेति / संप्रयोगाभावमेवाहन चेति / ज्ञानमात्रसमयवतिनीति सिद्धान्तमभिप्रेत्योक्तम् / परमतेऽप्यसति देशान्तरादिस्थिते वा रजतादी संप्रयोगो न संभवतीति भावः। भ्रान्तेरन्तः करणगतत्वे आत्मनि तदभावेन तदधीनबन्धोऽपि तत्र न स्यादित्यभिप्रेत्याह--एवमिति / आत्मनि वस्तुतो भ्रान्त्यभावेऽपि तदारोपोऽस्तीत्याशङ्कय तदारोपस्यान्यथाख्यातिरूपस्यान्तःकरणगतत्वेनात्मनो भ्रान्तता न स्यादित्याह-अन्तःकरणेति / तात्मैव भ्रान्तिसमवायिकारणमित्याह--आत्मनश्चेति / रजताद्यर्थस्यासत्यत्वेऽपि तद्विषयचाक्षुषज्ञानं सत्यमिति यदुक्तं, तदनूद्य दूषयतियत्त्वित्यादिना। अर्थाभावात्संप्रयोग एवासत्य, ज्ञानं तु सत्यं किन्न स्यादित्याशङ्क्यैन्द्रियकप्रत्यक्षत्वावच्छेदेनेन्द्रियसन्निकर्षस्य कारणत्वेन क्लृप्तत्वात्तदसत्यत्वे तत्कार्यस्याप्यसत्यत्वमावश्यकमित्याह -क्लृप्तकारणमिति / ननु यत्सोपादानं तत्सकर्तृकमिति नियमाच्छुक्तिरजतादेरपि सोपादानत्वे सकर्तृकत्वं स्यात् / न चेष्टापत्तिः। तत्रेश्वरस्य जीवस्य वा कर्तृत्वानुपपत्तः, इति चेत् न / उभयकर्तृत्वस्यापि संभवादित्याह--न चैवमिति / तत्रेश्वरकर्तृकत्वपक्ष उक्तदोषं परिहरति- तव मत इति / नवीनेन स्वप्नसृष्टेः परमार्थत्वेनाङ्गीकारात् जीवस्य तदा तदनुकूलकृत्यभावादीश्वरकर्तृकत्वेऽपि प्रतिपुरुषमसाधारण्यवत्तार्किकमते सुखादेरिष्टज्ञानादिमात्रजन्यस्य जीवकर्तृकत्वायोगादीश्वर