________________ 178 सटीकाद्वंतदीपिकायाम् न च सत्ताश्रयत्वे सति कार्यत्वं सोपादानत्वप्रयोजकयिति वाच्यम् / आत्मस्वरूपातिरिक्तघटादिसत्ताया निरस्तत्वात् / अन्यथा सत्ताश्रयत्वं सत्ताश्रयत्वे सति कार्यत्वं च निमित्तत्वे सनिमित्तत्वे च प्रयोजकमिति ध्वंसोऽपि निमित्तं निमित्तजन्यो वा न स्यात् / किंचित्कालं सतः सर्वदा सत्त्वनियमस्योक्तत्वाच्च / तस्माच्छुक्तिरजतादेरभावविलक्षणभावकार्यत्वान्यथानुपपत्योपादानकारणं सिदध्यति / तच्चोपादानं नात्मा। सन्मात्रोपादानत्वे कार्यस्यापि सत्त्वप्रसङ्गात्, तस्य निरवयवत्वेन परिणामायोगाच्च। शुक्तिशकलकाचादेरननुगतत्वेनानाश्रयत्वेन चोपादानत्वायोगात्। तच्च लाघवादनादीति परिशेषादज्ञानमेव। तदुक्तम्-- यच्चानादि स्वयं मिथ्या मिथ्योपादानं तदज्ञानमिति / यच्च-यद्यदनुविद्धतया प्रतीयते तत् तदुपादनमिति, तदसत् / लाघवेन यद्धि यदनुविद्धं तत्तदुपादानं न तु प्रतीतिपर्यन्तमपेक्षितम्। गौरवात् / रजतादिकं चानुगतजडात्मिकाविद्यानुविद्धमिति तदुपादानम् / अन्यथाऽऽरम्भवादे त्र्यणुके द्वयणुकस्य परिणामवादे दध्नि क्षीरस्य पृथिव्यादौ च प्रकृतेरनुपादानत्वप्रसङ्गात् / कार्यस्य सोपादानत्वे सत्ताश्रयत्वस्य प्रयोजकत्वे कारणस्य निमित्तत्वे कार्यस्य सनिमित्तत्वे च तस्य प्रयोजकत्वापातेन तवानिष्टं स्यादित्याह-अन्यथेति / सतः कार्यत्वमप्यनुपपन्नमित्याह - किंचिदिति / शुक्तिरजतादेरुपादानं विनाऽनुपपत्तिमुक्ता निगमयति-तस्मादिति / तदुषादानं परिशेषादज्ञानमेवेति वक्तुं संभावितोपादानान्तरमपवदति-तच्चेति / किमात्माऽधिष्ठानतयोपादानं परिणामितया वा ? / आद्ये परिणामितयोपादानान्तरमावश्यकमित्यभिप्रेत्य द्वितीयं दूषयति--सन्मात्रेति / परिणामस्य परिणामिसमत्ताकत्वनियमादित्यर्थः। कूटस्थात्मनः परिणाम एवायुक्त इत्याहतस्येति / तर्हि सावयवं शुक्तिः काचादि वोपादानमित्यत आह-शुक्तीति / शुक्त्यादेरननुगतत्वात्काचादेः चक्षुराद्याश्रयस्य रजताद्यनाधारत्वाच्च न तदुपादानतेत्यर्थः / तथाऽप्यनिर्वचनीयं किं चित्कार्यमेव तदुपादानमस्त्वित्याशङ्कयाह-तच्चेति / मिथ्यारजताधुपादानतया यत् क्लप्तमनाद्यनिर्वचनीयं तदज्ञानमेवेत्यत्राचार्यसंमतिमाहतदुक्तमिति / यदुक्तं रजतादेरज्ञानानुविद्धतया प्रतीत्यभावान्न तदुपादानमिति, तदनूद्य दूषयति-यच्चेत्यादिना। नत्विति। यद्यदनुविद्धं तत्तत्कारणमुपादानमित्येतावत एवोपादानलक्षणत्वात् प्रतीयत इत्येतद् व्यावाभावाद् व्यर्थमित्यर्थः / रजताधुपादानाज्ञाने च तल्लक्षणमस्तीत्याह--रजतादिकमिति / अज्ञानत्वाकारणानुगता जडात्मिका या अविद्या तत्परिणामतया तदनुविद्धमित्यर्थः। ननु तदनुविद्धतया प्रतीयमानत्वं तदुपादानत्वव्यापकं, रजतादौ च तदभावान्नाज्ञानोपादानत्वमिति चेत् न अप्रयोजकत्वेनोक्तव्याप्त्य