________________ द्वितीयः परिच्छेदः 177 नजर्थानुल्लिखितधीविषयत्वं वा, द्रव्याद्यन्यतमत्वं वा? / नाद्यः / सामान्यादेरभावत्वप्रसङ्गात् द्वितीयतृतीययोक्सस्यापि सोपादानत्वप्रसङ्गात् / बाधायोग्य. त्वव्यतिरिक्तस्वरूपसत्ताभावाच्च, शुक्तिरजतस्याप्यस्तीति प्रतीयमानत्वाच्च / इतरद् द्वयमभावविलक्षणत्व एव पर्यवस्यति / अन्यथाऽपि नास्माकमनिष्टम् / एवं कारणस्याप्युपादानत्वे तदेव प्रयोजकम् / रजतादेः सद्विलक्षणत्वेन निरुपादानत्वमित्यप्यत एव निरस्तम् / भावकार्यत्वस्यैव सोपादानत्वे प्रयोजकत्वात् / सद्विलक्षणत्वस्यैव निरुपादानत्वप्रयोजकत्वे परमते सतो ध्वंसस्य सोपादानत्वप्रसङ्गात् / एवं कारणस्यानुपादानत्वेऽपि न सद्विलक्षणत्वं प्रयोजकं किं त्वभावत्वमेव / अन्यथा प्रागभावस्याप्युपादानत्वप्रसङ्गात / न च कार्यस्य सोपादानत्वे कदाचित्सत्त्वं प्रयोजकमिति वाच्यम् / परमते ध्वंसस्यापि कदाचित्सत्त्वात् / कदाचित्सत्त्वे सति भावत्वं प्रयोजकमिति चेत् / न, भावत्वस्यैव लाघवेन प्रयोजकत्वात् / शक्तीति / नत्रर्थानुक्लिखितधीविषयत्वमित्यत्र नजानुल्लेखिधीविषयत्वं च तद्विलक्षणस्वरूपमेव अतिरिक्तविषयताया अनिरूपणात्, एव द्रव्याद्यन्यतमत्वमित्यत्रादिपदेन परिगृहीते अभावातिरिक्त गुणादौ द्रव्ये वाऽभावान्यत्वातिरिक्तस्यानुगतस्यान्यतमत्वस्यानिरूपणादुभयत्राप्यभावान्यत्वमेव तन्त्रमिति पर्यवस्यति / तथा च त्वयैव गौरवमुररीकृतमित्यभिप्रेत्याह-इतरदिति / अभावान्यत्वातिरिक्तभावत्वस्य कथञ्चिन्निरूपणेऽपि तस्य शुक्तिरजतादावपि संभवादिष्टापत्तिरित्याह-अन्यथाऽपीति / यदुक्तमज्ञानं सत्त्वरहितत्वान्नोपादानमिति, तत्राह-एवमिति / तदेवेति / अभावव्यावृत्तभावत्वमेवोपादानत्वे प्रयोजकं न तु सत्त्वम्, तस्योक्तप्रकारेणानिरूणादित्यर्थः। यदप्युक्तं-मतद्वयेऽपि सत्त्वाभावाद्रजतादेनिरुपादानत्वमेव युक्तमिति, तदूषयति-रजतादेरिति / ननु निरुपादानत्वप्रयोजकसद्विलक्षणत्वस्यापि सत्त्वाद्रजतादेनिरुपादानत्वं किन्न स्यादिति चेत् न अभावत्वस्यैव तत्प्रयोजकत्वेन तस्य तत्प्रयोजकत्वासिद्धरित्यभिप्रेत्य तदङ्गीकारे बाधकमाह-सद्विलक्षणत्वस्येति / सोपादानत्वप्रसङ्गादिति / कार्यस्य' निरुपादानत्वप्रयोजकाभावे सोपादानत्वस्याऽवश्यकत्वादित्यर्थः / अनुपादानत्वे सद्विलक्षणत्वस्य प्रयोजकत्वात्ज्ञानस्यापि तथात्वान्नोपादानत्वमित्याशङ्कयाह-एवमिति / सद्विलक्षणत्वस्यैवानुपादानत्वप्रयोजकत्वे पराभिमतप्रागभावे तदभावादनुपादानत्वायोगात्स्वकार्य प्रत्युपादानता स्यादित्याह-अन्यथेति / सोपादानत्वे परोक्तप्रयोजकान्तरमपि निराकरोति-न चेति / ननु भावत्वमात्रस्याऽऽत्मादावपि सत्त्वात्तावन्मानं न सोपादानत्वप्रयोजकं किं तु कार्यत्वमपि / तथा च सत्तावत्त्वे सति कार्यत्वमेव तत्प्रयोजकं किं न स्यादित्यत आह-न च सत्तेति / 23