SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ 176 सटीकाद्वैतदीपिकायाम् प्रतीयमानत्वं वा गौरवात् / तुच्छस्यापि शब्दाभासादिना प्रतिभाससंभवाच्च / न च रजतादिज्ञानस्य सत्यत्वेऽर्थस्यापि तथात्वप्रसङ्गः। चरमसाक्षात्कारस्य मिथ्यात्वेऽपि ब्रह्मणः सत्यत्ववत्साक्षिणः सत्यत्वेऽपि साक्ष्यस्य मिथ्यात्ववच्चोपपत्तेः / किं च यद्यदनुविद्धतया प्रतीयते तत्तदुपादानम् / न च रूप्यं तत् ज्ञानं वाऽज्ञानमिति भाति इति नवीनोक्तं निस्तम्। किमबाधितत्वापरपर्यायास्तित्वात्मकं भावत्वं कार्यस्य सोपादानत्वे प्रयोजकम्, उतान्यादृशम् ? नाद्यः / तस्यात्ममात्रधर्मत्वात् / पुष्पादिषु प्रतीयमानशैत्यस्यापि लाघवाज्जलधर्मत्ववत् घटादिषु प्रतीयमानास्तित्वस्य तदधिष्ठानात्मगतत्वात् / "अस्तीत्येवोपलब्धव्य" इति श्रुतेरात्मनोऽस्तित्वावधारणात् “यस्मात्परं नापरमस्ति किं चित्" "न ह्यस्ति द्वैतसिद्धिः' इत्यादिश्रुत्या भेदप्रपञ्चस्यास्तित्वनिषेधाच्च। त्वदभिमतध्वंसस्यापि सोपादानत्वप्रसङ्गात् / द्वितीयमपि किं सत्ताजात्याश्रयत्वं स्वरूपविशेषसत्तावत्त्वं वा, अस्तीतिप्रतीयमानत्वं वा, प्रतीयमानत्वस्य प्रयोजकत्वेऽतिप्रसङ्गमाह-तुच्छस्येति / स्वमते रजतज्ञानस्य सत्यत्वा दात्मादिरुपादानमित्युक्तं, तदयुक्तम् ज्ञानस्य सत्यत्वे विषयस्यापि सत्यतापातः अन्यत्र तथा दर्शनादित्याशङ्कय ज्ञानज्ञेययोरन्यतरमिथ्यात्वेऽप्यन्यतरसत्यत्वं तवापि संमतमिति परिहरति-न च रजतेति / अज्ञाने उपादानलक्षणाभावादपि न तद्रजतायुपादानमित्याह-किं चेति / यदुक्तं सोपादानत्वे भावत्वमेव तन्त्रमिति, तत्तावद्विकल्पयति -- किमिति / बाधाभावात्मकभावत्वस्यात्ममात्रता कार्यमात्रेऽभावान्न तत्सोपादानत्वे प्रयोजकमित्याह -नाद्य इति / अस्तित्वस्यात्ममात्रधर्मत्वे घटादिषु कथं तत्प्रतीतिरित्याशङ्कय तस्या अन्यथोपपत्तिमाह-पुष्पादिष्विति / पुष्पे] शैत्यकल्पने गौरवात् तत्र प्रतीयमानं शैत्यं यथा तदनुगतजलधर्म एवेति कल्प्यते, एवं घटादिषु पृथक् सत्त्वा. ङ्गीकारे गौरवात् तदनुगतात्मसत्तैव तत्तादात्म्याद्धटादिषु प्रतीयत इत्यर्थः।। वस्तुतः तत्सत्तैवात्मनि भ्रान्त्या प्रतीयत इति किं न स्यादित्याशक्य श्रुतिविरोधमाह-अस्तीति / ___अबाध्यत्वरूपास्तित्वस्य सोपादानत्वप्रयोजकत्वेऽतिप्रसङ्गमप्याह त्वदभिमतेति / अन्यादृशमित्येतदपि विकल्पयति-द्वितीयमपोति / सत्ताजातिमत्त्वमेव भावत्वमित्येतदव्याप्त्या दूषयति-नाद्य इति / न च भावत्वस्य लक्षणतया नैतद्विवक्षितं किं तु कार्यस्य सोपादानत्वप्रमापकतयेति वाच्यम् / अनिर्वचनीयरजतादेरपि पारिभाषिकसत्ताजातिमत्त्वसंभवेनेष्टापत्तेरिति भावः / स्वरूपविशेषरूपत्वस्यास्तीति प्रतीयमानत्वस्य च कार्यध्वंसेऽपि सत्त्वात्तस्यापि सोपादानत्वापात इत्याह-द्वितीयेति / किं च स्वरूपविशेषसत्त्वं नाम बाधायोग्यत्वमेव तदन्यद्वा ? / न द्वितीयः। तदनिरूपणादित्याह-बाधेति / नाद्यः / कार्यमाने तदभावादिति भावः / अस्तीतिप्रतीयमानत्वस्य तन्त्रत्व इष्टापत्तिमप्याह
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy