________________ द्वितीयः परिच्छेदः 175 एवमजा-नीहारादिशब्दश्च विचित्रगुणमयमावरणस्वभावमज्ञानमभिधीयते। लौकिकाजादेस्तत्रासंभावत् / ब्रह्मोपादानत्वश्रुतौ सांख्यकल्पितायाः प्रकृतेरप्यसंभवात् / अत एव "प्रकृति पुरुषं चैव" इत्यादिस्मृतिरपि भावरूपाज्ञाने प्रमाणम् / एवं मिथ्यार्थानुपपत्तिरपि भावरूपाज्ञाने मानम् / भावकार्यस्य रजतादेरुपादानान्तरासंभवात् / न चानिर्वचनीयस्य भावविलक्षणत्वान्न भावत्वमिति वाच्यम् / सद्विलक्षणत्वेऽपि पराभिमताभावव्यावृत्तभावत्वस्य पृथिव्यादिवद्रजतेऽपि सत्त्वात् / नवीनमतवर्णनम् एतेन सोपादानत्वे भावत्वमेव तन्त्रं न त्वभावविलक्षणत्वं गौरवात, प्रत्युत रजतादेर्मम मतेऽसत्त्वेन त्वन्मते च सद्विलक्षणत्वेन निरुपादानत्वमेव / एवमज्ञानं च सद्विलक्षणं नोपादानम् / मिथ्यारजतज्ञानमपि सद्विलक्षणम, स्वन्मते निरुपादानम् / अस्मन्मते च सत्त्वादात्माऽन्तःकरणं वोपादानम् / एवं सोपादानत्वे कार्यस्य कदाचित्सत्त्वं प्रयोजकं, न त्वसद्विलक्षणत्वं कदाचित्सदिति "अजामेकां लोहितशुक्लकृष्णां, नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति, यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते, आकाशे तदोतं च प्रोतं च" इत्यादिश्रुतयोऽपि भावरूपाज्ञाने मानमित्याह-एवमिति / ___ गुणत्रयात्मकस्वतन्त्रप्रकृतिरेवाजादिपदार्थ इत्याशङ्कयाह-ब्रह्मति / स्वतन्त्रप्रकृतेः श्रुतिबाध्यत्वादेव स्मृतिष्वपि प्रकृतिशब्दो भावरूपाज्ञानपर इत्याह-अत एवेति / अर्थापत्तिमप्याह-एवमिति / सत्यस्य मिथ्यारजतादिपरिणामितयोपादानत्वायोगाच्छुक्त्यादेरननुगतत्वेनानुपादानत्वात्-तस्यापि सत्यत्वे तत्कार्ये मिथ्यात्वायोगाच्च शक्त्यादेरपि मिथ्यात्वे तदुपादानतयाऽनिर्वचनीयाज्ञानस्यावश्यकत्वात्ततः परिशेषोपवृंहिता मिथ्यारजतादिभावकार्यानुपपत्तिरूपार्थापत्तिर्भावरूपाज्ञाने मानमित्यर्थः / भावाभावविलक्षणत्वस्यैवानिर्वचनीयत्वान्मिथ्यारजतादेर्भावकार्यत्वमेव नेति चोवं सिद्धान्तानवबोधविम्भितमिति दूषयति-न चेति / मिथ्यारजताधुपादानत्वेनानिर्वचनीयाज्ञानं कल्प्यमित्यत्र परोक्तचोद्यमनूद्यापवदयति-एतेनेत्यादिना / गौरवादिति / तथा च मिथ्यारजतादेर्नोपादानापेक्षेति भावः। न केवलं सोपादानत्वे प्रयोजकाभावःकिं तु मतद्वयेऽपि निरुपादानत्वे प्रयोजकमस्तीति तदेव युक्तमित्याह-प्रत्युतेति / / अज्ञानस्याप्युपादानत्वयोग्यताऽभावात्तत्त्वेन तन्न कल्पनीयमित्याह-एवमिति / तहि रजतज्ञानोपादानतयाज्ञानं कल्प्यत इत्याशङ्कयाह-मिथ्यारजतेति / मिथ्यारजतादेनिरुपादानत्वमेवेत्यभिप्रत्य सोपादानवे प्रयोजकान्तरमाह-वमिति / सदिति