________________ 174 सटीकाद्वैतदीपिकायाम् शुक्तिरजतादिकं प्रति क्लुप्ताज्ञानस्यैव तदुपादानत्वे लाघवमिति नाप्रयोजकत्वमपीति / अतृतेन प्रत्यूढा इति श्रुतिः मानम् एवम् "अनतेन हि प्रत्यूढा" इति श्रुतिरपि भावरूपाज्ञाने मानम् / ऋतं सत्यं न भवतीत्यनतमनिर्वचनीयम् / तदपि "एतं ब्रह्मलोकं न विन्दन्ति" इति पूर्ववाक्यावगतस्वापकालीनब्रह्मालाभनिमित्तमज्ञानमेव, तदन्यस्य तदा तदलाभनिमित्तत्वायोगादित्यज्ञानमन्तशब्दार्थः / न च ऋतं सत्कर्म अनतं पापमिह विवक्षितम् "ऋतं पिबन्तौ" इत्यत्र सुकृते ऋतशब्दप्रयोगादिति वाच्यम् / सत्यवाचिनो हि ऋतशब्दस्य कर्मणि सत्यावश्यकत्वाभिप्रायेण श्रुतौ कर्मफले प्रयोगः न तु कर्मणि, सुकृतस्य लोक इति कर्मणः पृथग् ग्रहणात् / सुषुप्तावपि प्रत्यक्स्वभावात्मनः कर्मनिमित्तालाभासंभवात् / न च कर्म प्राप्तावारकम् / अज्ञानं तु विद्यमानमेवावृणोतीति तदेवानृतशब्दार्थः / उभयत्रानृतशब्दप्रयोगेऽपि 'अज्ञानेनावृतं ज्ञानम्" इत्यादिशास्त्रसिद्धावरणस्वभावस्याज्ञानस्यैव "न किञ्चिदवेदिषम्" इति परामर्शेनापि सिद्धस्य स्वप्रकाशात्मावरणयोग्यतया प्रकृते तदर्थत्वात् / तस्यैवासंभवात् / सिद्धान्ते तु जाग्रत्यनुष्ठितदुरितस्याविद्यातिरिक्तदोषाजन्यत्वादर्थक्रियासमर्थत्वात् स्वप्नानुष्ठितस्य चातथात्वाद्वैषम्यमिति भावः / अत एवाप्रयोजकताऽपि नेत्याह-मिथ्येति / अनृतस्यावारकत्वप्रतिपादकच्छन्दोगश्रुतिरपि भावरूपाज्ञाने मानमित्याहएवमिति / नन्वत्रानृतं किञ्चिदावारकं प्रतीयते न त्वनिर्वचनीयाज्ञानमित्यत आहऋतमिति / असत्यवचनरूपानृतस्य सुषुप्तावसंभवादज्ञानादन्यस्य पूर्ववाक्योक्तप्रत्यगभिन्नब्रह्मालाभनिमित्तस्यानृतेन हीति सिद्धवन्निशायोगाच्चेत्यर्थः। अनृतशब्देन पापस्यापि वक्तु शक्यत्वात् तस्यावारकत्वसंभवाच्चात्रापि तदेवोक्तमित्याशङ्कामपवदति-न चेति / 'ऋतं पिबतौ' इत्यत्र ऋतशब्दो यदि सुकृतकाभिधायकः स्यात् तीनृतशब्दः पापाभिधायकः स्यात्, न त्वेतदस्ति / तत्र सुकृतस्य स्वशब्दोपात्तत्वेन ऋतपदस्य जघन्यबृत्त्या तत्फलपरत्वादित्याह-सत्यवाचिन इति / स्वप्रकाशप्रत्यगभिन्नब्रह्मालभस्य वास्तवस्यासंभवादनिर्वचनीये च तस्मिन् सत्यस्य कर्मणो निमित्तत्वासंभवान्न कर्मणस्तदावारकत्वमपीत्याह-सुषप्ताविति / अज्ञानस्य तु प्राप्तकण्ठचामीकराद्यावारकत्वदर्शनात्तदेवावारकत्वेनानृतपदोक्तमित्याह--अज्ञानमिति / पापस्यानृतपदार्थत्वमङ्गीकृत्यापि प्रकृते तन्न ग्राह्यं किं तु योग्यतयाऽनिर्वचनीयाज्ञानमेवेत्याह-उभयत्रेति /