________________ द्वितीयः परिच्छेदः 173 सूत्रकारोऽपि--"मायामात्रं तु कात्स्न्येनानभिव्यक्तस्वरूपत्वात्" इति मिथ्यास्वप्ने मृद्घटन्यायेन मायाशब्दं प्रयुञ्जानो मिथ्यापरिणाम्यज्ञानमेव मायां दर्शयति / ज्ञाने च मायाशब्दोऽन्य एव / “मायावयुनं ज्ञानम्" इति निघण्टुस्मरणात् / कार्ये कारणोपचारो वा। पुराणेषु तत्र तत्र मन्त्रादौ मायाशब्दप्रयोगोऽघटितकार्यजनकत्वगुणयोगात्, लोके निघण्टे च तत्र मायाशब्दाप्रयोगात् / न चैवं शुक्तिरजतादिपरिणामिन्यपि मायाशब्दप्रयोगो लौकिकानां स्यादिति वाच्यम् / साधारणासाधारणभ्रमानुकूलशक्तिनिमित्त कस्मिन्नप्यज्ञाने मायाऽज्ञानशब्दयोप॑वस्थया प्रयोगात् घर्म्यभेदेन मायिकं रजतमित्यादिप्रयोगदर्शनात् / प्रयोगश्च ऐन्द्रजालिकप्रदशितो गजादिः स्वप्नोपलम्भोवाऽज्ञानोपादानकः मिथ्यात्वात् शुक्तिरजतवत् / न च हेत्वसिद्धिः। समुद्राकर्षणादेः सत्यत्वे तद्देशतिप्राणिनां मरणप्रसङ्गात / स्वप्नकृतब्रह्महत्यादेश्च सत्यत्वे तस्यवोत्थितस्य कर्मानधिकारप्रसङ्गात् / मिथ्या मायामात्रमिति / तत्र हेतुः कात्स्येनानभिव्यक्तस्वरूपत्वादिति / परमार्थकार्यं प्रति क्लृप्तदेशकालादिसामग्रीपौष्कल्यं कात्स्न्यं तेनानभिव्यक्तस्वरूपत्वात् क्लुप्तकारणं विना भवतः कार्यस्य सत्यत्वायोगात् / न तत्र रथा इत्यादिना तत्रैव तदभावस्योक्तत्वाच्चेति सूत्रार्थः / न चाज्ञानमेव कथं मायापदार्थः ?, हिरण्यगर्भबुद्धयादावपि तत्प्रयोगादित्याशक्य तत्र शत्यन्तरमेवेत्याह-ज्ञान इति / घटादौ मृच्छब्दस्येव वा वृत्तिज्ञाने मायाशब्दप्रयोग इत्याह कार्य इति / कथं तहि मन्त्रविशेषेष देवताविशेषे च मायापदप्रयोग ऋषीणामित्यत आहपुराणेष्विति / तत्रापि शक्त्यन्तरमेव किन्न स्यादित्यत आह-लोक इति / लौकिकस्य नैघण्टकस्य वा प्रयोगस्य शक्तिकल्पकत्त्वात्तदुभयस्य तत्राभावाद्गौणत्वमित्यर्थः। मिथ्यापरिणामिनो मायापदार्थत्वेऽतिप्रसङ्गमपवदति-न चेति / वृक्षादौ सत्यपि पृथिवीत्वे यथा न पृथिवी. पदप्रयोगः किं तु निमितान्तरेण वृक्षादिपदप्रयोगः एवमत्रापीत्यभिप्रेत्याह-साधारणेति / बृक्षादौ पार्थिवपदप्रयोगात्तत्कारणे पृथ्वीत्ववत् रजतादौ मायिकपदप्रयोगात् तत्कारणाज्ञानस्य मायात्वमावश्यकमित्याह-धर्मीति / तकितेऽर्थेऽनुमानमाह-प्रयोगश्चेति / ऐन्द्रजालिकप्रदर्शितस्य स्वप्नस्य च सत्यत्वं वदन्तं प्रत्याह-न चेति / कर्मानधिकारप्रसङ्गादिति। न च जाग्रत्कृतैव ब्रह्महत्या कर्मानधिकारहेतुः, न स्वप्नकृता। इतरथा सिद्धान्तेऽपि मिथ्यात्वाविशेषाज्जाग्रत्यपि संपादिता साऽनधिकारहेतुर्न स्यादिति वाच्यम् / स्वप्नप्रपञ्चस्य सत्यत्वे तस्य तत्रत्येन्द्रियग्राह्यत्वस्यापि तथात्वात्तस्यापि जाग्रदवस्थात्वापातात् / न च निन्द्रादिदोषजन्यत्वमेव ततो भेदकमिति वाच्यम्। सत्यत्वे