SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः 165 ध्यानस्योक्तसाक्षात्कारहेतुत्वश्रुतिविरोधप्रसङ्गाच्च सत्यपि ध्याने लोके साक्षात्कारं विनाऽज्ञानानिवृत्तेश्च / तथा च यत् ज्ञानमात्रनिवयं तदज्ञानमसत्यमेव / किञ्च परोक्षज्ञानादपरोक्षादपि स्वरूपज्ञानादपरोक्षप्रमाणज्ञानादप्यन्यविष. यादविद्यानिवृत्तिनेत्यधिष्ठानविषयापरोक्षप्रमाणज्ञानमविद्यानिवर्तकमिति न तन्निवर्त्यस्याविद्यात्वव्यभिचारः। अथ वा ज्ञानत्वपुरस्कारेण यत् ज्ञाननिवयं तदज्ञानमेव / अज्ञानं च "न जानामि" इत्यनुभवात् तथा / पापादिकं च ज्ञानविशेषेणव निवर्त्यमिति न व्यभिचारः। एतेन परमेश्वरविग्रहदर्शनसेतुदर्शनशाब्दब्रह्मज्ञानादेः पापनिवर्तकत्वान्न ज्ञानस्याविद्यानिवर्तकत्वनियम इति प्रत्युक्तम् / सर्वत्रापि श्रद्धादिविशिष्टस्यैव निवर्तकत्वात् ज्ञानमात्रस्यैव निवर्तकत्वे मानाभावात् / उक्तार्थानङ्गीकारे बाधकमाह-ध्यानस्यैवेति / न केवलं योजनश्रुतिवैयर्थं कि तु "ततस्तु तं पश्यते निष्कलं ध्यायमान" इत्यस्या अपि विरोधापात इत्याह-ध्यानस्येति। अन्वयव्यभिचारमप्याह-सत्यपीति / अत्राप्यव्यभिचारात् ज्ञानकनिवर्त्यत्वस्यासत्यत्वेन नियमः सिद्ध इत्याह-तथा चेति / अज्ञानपदव्याख्या--असत्यमिति / अधिष्ठानविषयापरोक्षप्रमाणज्ञानत्वेन शुक्त्यादिज्ञाननिवर्त्यस्य रजतादेमिथ्यात्वदर्शनादज्ञानस्याप्यन्यादृशज्ञानानिवर्त्यत्वेन तादृशज्ञानेन निवर्त्यत्वान्मिथ्यात्वमित्यनयाऽपि रीत्या ज्ञानमज्ञानस्यैव निवर्त्तकमिति नियममुपपादयति--किं चेत्यादिना / ___ ज्ञानत्वेन यत् ज्ञाननिवयं तदज्ञानमेवेति वा नियम इत्याह-अथ वेति नन्वपरोक्षज्ञानस्यैवाज्ञाननिवर्त्तकत्वात्कथं ज्ञानत्वेन तन्निवर्तकत्वमित्याशक्य वस्तुतोऽपरोक्षवत्त्युपहितचैतन्यस्यैव प्रतीतिबलात् ज्ञानसामान्यात्मनैवाविद्यानिवर्तकत्वमुपपादितमित्यभिप्रेत्याह-अज्ञानं चेति / पापदुःखादेः कपिलादिज्ञानत्वेनैव तनिवर्त्यत्वान्न तत्रोक्तदोष इत्याह-पापादिकं चेति / ननु आपीठान्मौलिपर्यन्तं पश्यतः पुरुषोत्तमम् / पातकान्याशु नश्यन्ति किं पुनश्चोपपातकम् // सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति / परोक्षं ब्रह्मविज्ञानं शाब्दं देशिकपूर्वकम् // बुद्धिपूर्वकृतं पापं कृत्स्नं दहति वह्निवत् / न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः॥ ते पुनन्त्युरुकालेन दर्शनादेव साधवः / इत्यादिवचनैः पापस्यापि ज्ञाननिवर्त्यत्वावगमान्न तन्निवर्त्यस्याज्ञानत्वनियम इत्यत आह-एतेनेति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy