SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 166 सटीकाद्वैतदीपिकायाम् ज्ञाननिवर्त्यत्वस्य मिथ्यात्वप्रयोजकत्वे शङ्का परिहारी नन्वस्तु अज्ञानस्य ज्ञानकनिवर्त्यत्वं तथापि न ज्ञाननिवर्त्यस्य मिथ्यात्वनियमः। मिथ्यात्वं विनाऽप्यज्ञानत्वादेव तस्य ज्ञाननिवर्त्यत्वात् / विरोधो हि निवर्त्यनिवर्तकयोरपेक्ष्यते, न तु निवर्त्यस्य मिथ्यात्वम् / प्रकाशनिवय॑तमसस्तदभावात् / विरोधश्व ज्ञानत्वाज्ञानत्वकृत एव / अन्यथा रजतादेरपि साक्षाज्ज्ञाननिवर्त्यत्बप्रसङ्गात् / सत्यस्य कुत्रापि प्रकाशनिवर्त्यत्वं न दृष्टमित्यपि निरस्तम् / अज्ञानादन्यत्रासत्यत्वेऽपि तददर्शनात्, अज्ञानत्वप्रयुक्तज्ञाननिवर्त्यत्वस्य सत्यत्वासत्यत्वयोस्तुल्यत्वात् / अत एव सत्यस्य ज्ञाननिवर्त्यत्वे आत्मनोऽपि ज्ञाननिवय॑त्वापत्तिः श्रुतोपपत्त्यर्थं बन्धस्याविद्यात्मकत्वं वर्णनीयमित्यप्यत एव निरस्तम् / सत्यस्याप्यज्ञानस्याज्ञानत्वादेव ज्ञानानिवृत्तौ तत्कार्यबन्धस्यापि कारणनिवृत्त्येव निवृत्तः। न च अज्ञानमसत्यं ज्ञाननिवत्य॑त्वात् शुक्तिरजतवदिति साध्यम् / दृष्टान्ते हेतोरभावात् / न च स्वाश्रयप्रकाशकालनियतध्वंसप्रतियोगित्वं हेतुरिति वाच्यम् / अज्ञानस्य ज्ञानकनिवर्त्यत्वमसत्यत्वाभावेऽपि स्वरूपविशेषादेवोपपद्यत इत्याशङ्कते- नन्विति / सत्यस्यापि ज्ञानानिवृत्तौ पटादेरपि तदापात इत्यत आह-विरोधो हीति / विरोधे सत्यस्यापि निवृत्तावुदाहरणमाह--प्रकाशेति / सत्यस्यापि ज्ञानविरुद्धत्वे पटादेरपि तद्विरुद्धत्वं किं नस्यादित्याशङ्कयाह विरोधश्चेति / अज्ञानत्वं नाम कश्चिदखण्डो धर्मः, तत्प्रयुक्त एव ज्ञानेन विरोध इत्यर्थः। मिथ्यात्वस्यैव प्रपोजकत्वे साझा दज्ञानस्य ज्ञानानिवृत्तिः। तदद्वारा रजतादेरिति विभागो न स्यादित्याह-अन्यथेति / विरोधस्याज्ञानत्वप्रयुक्तत्वादेव सत्यस्यान्यत्र ज्ञाननिवर्त्यत्वमप्रसिद्धं कथमज्ञाने कल्प्यत इति चोद्यमनवकाशमित्याह-सत्यस्येति / अज्ञानस्य सत्यत्वपक्षेऽपीदं चोद्यं तुल्यमित्याह-अज्ञानादिति / शुक्तिरजतादेरज्ञाननिवृत्त्यैव निवृत्तेरिति भावः / ज्ञाननिवर्त्यत्वस्याज्ञानत्वप्रयुक्तत्वेन तस्यासत्यत्वाद्यसाधकत्वादन्यतस्तन्निर्णयो वाच्यः, तथा च सत्ताग्राहितत्प्रत्यक्षानुरोधेन सत्यमेव तदित्यभिप्रत्याह-अज्ञानेति / ज्ञाननिवर्त्यत्वस्याज्ञानत्वप्रयुक्तत्वादेव चोद्यान्तरमपि निरस्तमित्याह-अत एवेति / श्र तोपपत्यर्थमिति / / “तथा विद्वान्नामरूपाद्विनुक्तः" "तदा विद्वान् पुण्यपापे विधूय" इति श्रुतं यद्वन्धस्य ज्ञाननिवर्त्यत्वं तदुपपत्तये इत्यर्थः / ज्ञानानन्तरं बन्धस्य निवृत्तिमात्रं श्रुतं तद्वन्धतत्कारणयोरुभयोः सत्यत्वेऽप्युपपद्यत इत्याह-सत्यस्यापीति / प्रमाणज्ञाननिवर्त्यत्वानुपपत्त्या मिथ्यात्वसिद्धावपि तदनुमीयत इत्याशङ्कामपनुदति--न चेति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy