________________ द्वितीयः परिच्छेदः 161 इत्याद्यागमोऽपि तत्र प्रमाणम् / एवं त्रिगुणात्मकपरिणामिज्ञाननिवादिविषयमायाश्रुतिरपि भावरूपज्ञाने प्रमाणम् / तस्य तदात्मकत्वात् / अविद्याया अनिवर्चनीयत्वम् तथा हि-अविद्या तावत् ज्ञाननिवाऽनिर्वचनीया सतोऽसतो वा ज्ञानानिवय॑त्वात् / सतोऽपि ज्ञाननिवर्त्यत्वे पटादेरपि तन्त्वादिज्ञाननिवर्त्यत्वप्रसङ्गात् / असतश्च ध्वंसाप्रतियोगित्वात्। ननु स्वाश्रयगतस्वाभावप्रमा नितिका / अन्यथा रजताभावभ्रमादपि तन्निवृत्त्यापातात् / अभावज्ञानस्यैव भावविरुद्धत्वाच्च / न चैवं सत्यरजतस्यासत्यत्वाभावात् न निवृत्तिरिति वाच्यम् / विरोधिज्ञानमात्रस्य निवर्तकत्वे ज्ञानमात्रनिवर्त्यत्वस्यैव मिथ्यात्वप्रयोजकत्वेच तस्यापि तदापत्तेः। पटाद्याश्रयतन्त्वादौ च न पटाभावप्रमा.संभवति इति चेत् न / रजताद्याश्रयशुक्तिकादावपि तदसंभवेन रजतस्यापि ज्ञानादनिवर्त्यत्वप्रसङ्गात् / मेवेति भावः। 'देवात्मशक्ति स्वगुणैनिगूढाम्" "मायां तु प्रकृति विद्यात्' 'भूयश्चान्ते विश्वमायानिवृत्तिः' “इन्द्रो मायाभिः पुरुरूप ईयते” “माययाह्यन्यदिवेत्यादिश्रुतिमभिप्रेत्याह-वामति / अपिशब्देन "दैवीह्येषा गुणमयी मम माया दुरत्यया” “यो माययेदं पुरुरूपयाऽसृजत्" "त्वय्युद्धवाश्रयति यः त्रिविधो विकारो मायान्तराऽपतति नाद्यपवर्गयोयंत्" 'तरत्यविद्यां वितता हृदि यस्मिन्निवेशिते / योगी मायाम्" इत्यादिस्मृतिः सङ्गच्छते। मायाविद्ययोर्भेदान्मायाश्रुतिरविद्यायां न मानमित्यत आहतस्येति / अज्ञानस्य ज्ञाननिवर्त्यत्वेनानिर्वचनीयत्वान्मायाया अपि तथात्वात्तयोरेकलक्षणवत्त्वादभेद इत्यर्थः। तत्र तावदविद्याया ज्ञाननिवर्त्यत्वेनानिर्वचनीयत्वमुपपाक्यति-तथा हीति / ज्ञाननिवत्येति / ज्ञानेनाज्ञानं निवृत्तमित्यनुभवात् / ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः / "तरत्यविद्यां विततां हृदि यस्मिन्' इत्यादि वचनाच्चेत्यर्थः। सतः किं स्वविषयज्ञानानिवृत्तिः उत स्वाश्रयज्ञानात् ? / नाद्यः / आत्मनोऽपि तत्प्रसङ्गादित्यभिप्रेत्य द्वितीयं दूषयति-सतोऽपीति / सत्त्वे ज्ञाननिवय॑त्वानुपपत्तिश्चेत्तीज्ञानमसदेवास्त्वित्याशङ्कयाह--असतइति / सतोऽपि ज्ञानविशेषनिवर्त्यत्वमिति शङ्कतेनन्विति / निवर्तिकेति / स्वस्येति शेषः। तत्र प्रमापदकृत्यमाह--अन्यथेति / सत्यरजताश्रये तदभावज्ञाने सत्यपि तदनिवृत्तेस्तत्प्रमैव निवत्तिकेत्यर्थः। अन्यज्ञानस्यान्यनिवर्त्तकत्वेऽतिप्रसङ्ग इत्याशङ्कयाह--अभावेति / ननु सत्यरजतस्य स्वाश्रये स्वाभावभ्रमादनिवृत्तिन तस्य प्रमात्वाभावप्रयुक्ता, किं तु स्वस्यासत्यत्वाभावादेव। तथा च स्वाश्रये स्वाभावज्ञानमात्रमेव स्वनिवृत्तौ कारणमिति चेत् न / तथा सति सत्यरजतस्यापि 21