________________ 160 सटीकाद्वैतदीपिकायाम् च धारावाहिकद्वितीयादिबुद्धौ व्यभिचारः। तत्रापि पक्षप्रमाप्रागभावातिरिक्तस्वप्रागभावनिवर्तकतया साध्यसत्त्वात् / न च प्रमापदं व्यर्थम् / देवदत्तदुःखप्रागभावातिरिक्तस्वप्रागभावनिवर्तकतयाऽर्थान्तरत्वपरिहारार्थत्वात् / प्रमापदेन च पक्षीभूतप्रमाव्यक्तरेव ग्रहणान्न पुनरप्यर्थान्तरता। न चाप्रयोजकः। तर्काणामुपन्यस्तत्वात् / अत एव नाभाससमानता। यच्च चैत्रप्रमा चैत्रगतस्याभावातिरिक्तस्यानादेर्न निवत्तिकेत्यादि सत्प्रतिपक्षत्वं, तच्चत्रप्रमा चैत्रगतप्रागभावनिवतिका न भवतीत्याभाससमानतयाऽनुकूलतर्काभावेन च निरस्तम् / "अविद्यायामन्तरे वर्तमानाः'' "अज्ञानेनावृतं ज्ञानम्" इत्यर्थः / इदं च साध्यं प्रागभाव नवृत्तिः प्रतियोग्यतिरिक्तवेति मते / ततश्च नेच्छाप्रागभावादिनार्थान्तरता / अत्र हेतुर्यथाश्रुत एवेत्याह -प्रमात्वमेवेति / तहि धारायां परोक्षप्रमायां च व्यभिचार इत्यत आह-न चेति ! प्रमापदस्य पक्षमात्रपरत्वात् धारादौं पक्षीकृतप्रमाप्रागभावातिरिक्तस्वप्रागभावनिवर्तकत्वस्य सत्त्वान्न व्यभिचार इत्यर्थः / देवदत्तगतप्रागभावातिरिक्तेत्येतावतापीष्टसिद्धेः प्रमेति व्यर्थमित्युक्तं दूषयति-न चेति / नन्वेवमपि देवदत्तगतपटप्रमाप्रागभावातिरिक्तस्वप्रागभावनिवर्तकत्वेनार्थान्तरता किं न स्यादित्यत आह--प्रमापदेनेति / पक्षीकृतप्रमाव्यक्तिष्वेकव्यक्तरितरव्यक्तिप्रागभावातिरिक्तस्वप्रागभावनिवर्तकत्वात् / एवमितरव्यक्तिव युक्तसाध्यसंभवादन्तिरतेति न शङ्कनीयम्। एकप्रमाव्यक्तेरेव पक्षीकरणादित्यभिप्रत्योक्तं - व्यक्तेरेवेति / न चैवं देवदत्तगतत्वविशेषणं व्यर्थमिति वाच्यम्। पक्षीकृतप्रमाया अधिष्ठानरूपस्वप्रागभावातिरिक्तान्तःकरणगतप्रागभावनिवर्तकत्वेनार्थान्तरतापरिहारार्थयात् देवदत्तगतप्रमानिवद्ज्ञाने देवदत्तगतत्वस्यावश्यकत्वात्तस्य चाज्ञानस्य स्वनिवृत्तिप्रागभावरूपत्वाच्च पक्षीकृतप्रमायां देवदत्तगतप्रागभावातिरिक्तनिवर्तकत्वं बाधितमिति प्रमापदमिति वा द्रष्टव्यम् / पूर्वानुमानोक्तविपक्षबाधकताणामत्रापि प्रसङ्गात् परोक्ताप्रयोजकत्वमपि नास्तीत्याह--न चेति / यदुक्तं देवदत्तप्रमा देवदत्तगतप्रमाप्रागभावातिरिक्ताऽनाद्यभावनिवतिका प्रमात्वादित्याभाससाम्यमिति तदप्ययुक्तम् / तर्कोपोद्वलितत्वेन ततो वैषम्यान्निरस्तमित्याह.. अत एवेति / आभाससाम्यम् अप्रयोजकत्वं च परोक्तप्रतिपक्षानुमानस्यैव, ततश्च नास्यसत्प्रतिपक्षत्वमपीत्याह-यच्चेति / भावरूपाज्ञाने श्रुतिस्मृती अपि प्रमाणयति-अविद्यायामिति / अविद्यारूपावरणे वर्तमानास्तदावृता अन्यल्लौकिकश्रेयोविलक्षणं स्वप्रकाशस्व स्वरूपनित्यनिरतिशयानन्दरूपश्रेयो न जानन्तीति श्रुत्यर्थः / अनिर्वचनीयाज्ञानं विनाऽन्यस्य स्वरूपतः प्रकाशतश्च प्राप्तावरकत्वायोगात् / तदेवात्राविद्यादिपदार्थः / अज्ञानेनावृतं ज्ञानमित्यत्रापि स्वप्रकाशस्वरूपभूतज्ञानावरकत्वेनोक्तमनिर्वनीयाज्ञान