________________ द्वितीयः परिच्छेदः 159 प्रमाणज्ञानस्याज्ञाननिवर्तकत्वप्रकारः न च प्रमाणज्ञानस्य घटतदवच्छिन्नचैतन्याविषयस्य कथमज्ञाननिवर्तकत्वं वृत्त्यवच्छिन्नचैतन्ये विषयस्यानारोपितत्वेन तदसंबन्धादविषयत्वात्, चैतन्यस्य च रूपादिहीनस्याविषयत्वादिति वाच्यम् / विषयाधिष्ठानचैतन्यस्यैव वृत्तिप्रतिबिम्बिततया तदभेदेन तत्संबन्धस्यैव तत्संबन्धत्वात् रूपादिहीनस्यैव चैतन्यस्य घटादिसत्तारूपेण सर्वप्रमाणविषयत्वात् / अत एव वृत्त्यज्ञानयोः समानाश्रयत्वमपि / चित्सुखाचार्यप्रोक्तं अज्ञानेप्रमाणं एवं चित्सुखाचार्यानुमानमपि तत्र प्रमाणम् / तत्र च जन्यसविकल्पकाजन्यदेवदत्तघटचाक्षुषप्रमाणज्ञानं पक्षः / अतो न सुखादिप्रत्यक्षे बाधः / साध्ये च देवदत्तस्थत्वं प्रमाप्रागभावस्य विशेषणम् / उक्तप्रमाया देवदत्तपदार्थान्तःकरणनिष्ठत्वेन तत्प्रागभावस्यापि तत्र सत्त्वात् / प्रमात्वमेव हेतुः / न चैतन्यस्य विषयेणाध्यासिकसम्बन्धस्याप्यभावात् ततः कथं तत्प्रकाश इति चोद्यमपवदति-न चेति / ___ तत्र तावद् वृत्त्यवच्छिन्नचैतन्यस्य विषयासम्बन्धोऽसिद्ध इत्याह-विषयेति / विषयदेशव्याप्योत्पन्नया वृत्त्या विषयाविष्ठानचैतन्यस्याम्यवच्छिन्नत्वेन तदा प्रमातृप्रमाणप्रमेयचैतन्यानामेकोपाध्याक्रान्तत्वेनाभेदाद्विषयस्याधिष्ठानचैतन्येनाध्यासिकतादात्म्यवत्त्वात्तद्वारा प्रमात्रव्यवहितत्वादपरोक्षतया प्रकाशोपपत्तिरित्यर्थः / अनवच्छिन्नचैतन्यस्य चाक्षुषवृत्तिविषयत्वाभावेऽपि अविच्छिन्नस्यतस्य सर्वप्रमाणगम्यतया वक्ष्यमाणत्वात्तद्विषयवृत्त्या तदज्ञाननिवृत्त्युपपत्तिरित्याह-रूपादीति / वृत्त्याश्रयप्रमातृचैतन्यस्याज्ञानाश्रयाधिष्ठानचैतन्यस्य चैकोपाधिसम्बन्धेनाभेदात्तयोनिवर्त्यनिवर्त्तकभावप्रयोजकसामानाधिकरण्यमप्युपपन्नमित्याह-अतएवेति / देवदत्तप्रमा देवदत्तगतप्रमाप्रागभावातिरिक्तानादेनिवर्तिका प्रमात्वात् सम्मतप्रमावदित्यनुमानेऽपि परोक्तदोषोद्धारायाह-एवमिति / तत्र विवक्षितं पक्षमाह-तत्र चेति / अत्रापि धारायां द्वितीयादिज्ञाने बाधवारणाय' सविकल्पकाजन्येति / असम्भववारणाय जन्येति / उत्तरविशेषणकृत्यमाह-अत इति / यदुक्तं देवदत्तगतत्वं प्रमातत्प्रागभावयोरन्यतरस्य विशेषणम्, उत तदतिरिक्तानादेरिति तत्राह-साध्ये चेति / ' यदप्युक्तं चिद्रूपदेवदत्ते प्रमातत्प्रागभावयोरसंभव इति तत्राह-उक्तेति / देवदत्तः करोति देवदत्तो भुंक्त इत्यादिप्रयोगेषु कर्तृभोक्तृरूपस्यैव तच्छब्दार्थत्वेनावगमात्कर्तृत्वादेश्च चित्तादात्म्यापन्नान्तःकरणधर्मतया तत्प्रयोजकप्रमातृत्वमपि तस्यैवेति नोक्तदोष