________________ 158 सटीकाद्वैतदीपिकायाम् स्वप्रागभावसमानकालीनविषयविषयत्वस्योक्तद्वितीयादिबुद्धिसाधारणत्वात्, लाघवेनाप्रकाशब्दस्य प्रकाशप्रतियोगिभावविषयत्वात्, अभावत्वस्य दुनिरूपत्वाच्च / तथा च तदज्ञाने भावत्वविप्रतिपत्तावपि तज्ज्ञाने तन्निवर्तकत्वस्यानुभवसिद्धत्वान्नासिद्धिः, न वा दृष्टान्ते साधनवैकल्यम् / तमसोऽभावत्वस्यापि विवरणाचार्यैरेव साधितत्वात् तस्यालोकाभावत्वप्रयुक्तसाध्यवैकल्यशङ्कापि न कार्येत्यभिप्रेत्याह-घटादीति / विपक्षे बाधकतर्काभावादप्रयोजको हेतुरित्युक्त निरस्यति-न चेति / पक्षीभूतज्ञानस्याज्ञातार्थविषयत्वमुभयवादिसम्मतम् / तद्विषयेऽज्ञातत्वं त्त चिदंशे भावरूपाज्ञानविषयत्वं जडांशे तु तदवच्छेदकत्वम् / अन्यस्यानिरूपणात् / ततो भावरूपाज्ञानाभावे तदनुपपत्तिरित्यर्थः। ननु स्वप्रागभावकालीनत्वमेव स्वविषयस्याज्ञातत्वमित्यत आह-स्वप्रागभावेति / ननू स्वप्रतियोगिसमानाधिकरणतत्समानविषयज्ञानासमानकालीनस्वविषयज्ञानप्रागभावकालीनत्वं विषयस्याज्ञातत्वमिति चेत् न / अतीतादेरज्ञातताऽभावप्रसङ्गात् / न च तादृशप्रागभाव एवाज्ञातत्वमिति बाच्यन् / प्रमेयतया ज्ञाते घटत्वाकारेणाज्ञातताऽ. भावप्रसङ्गात् / न च समानविषयेत्यत्र समानप्रकारकत्वमपिविवक्षितमिति वाच्यम् / तथापि प्रमेयवानिति ज्ञाते घटे तदभावप्रसङ्गात् / ननु प्रमेयवानिति ज्ञाने घटत्वं प्रमेयतया प्रकारो न घटत्वत्वाकारेणेति चेत् न / घटत्वनिर्विकल्पकजन्यघटसविकल्पकेपि तदभावेन तदाऽप्यज्ञातताप्रसङ्गात् / प्रमेयवा. निति ज्ञाने घटत्वविशेषणतया घटत्वताया अपि प्रतीतेश्च / किं चाशोकग्रन्थोक्तविधया परोक्षतो ज्ञानेऽपि चन्द्रादौ न जानामीत्यनुभूयमानमज्ञातत्वं न स्यात् / न च स्वप्रतियोगिसमानाधिकरणतत्समानविषयप्रकारकप्रत्यक्षज्ञानासमानकालीनस्तज्ज्ञानप्रागभावस्तदज्ञाततेति वाच्यम् / नित्यातीन्द्रियेष्वज्ञातत्वाभावप्रसङ्गात् / किञ्च भावरूपाज्ञानविषयत्वे लघुशरीरे ज्ञाततापदार्थे सम्भवति, त्वदुक्तं गुरुशरीरं न तदर्थ इत्याह- लाघवेनेति / किञ्च ज्ञानप्रागभावस्याज्ञानत्वरूपत्वे यस्य यत्र पक्षेऽपि न विशेषज्ञानं तं प्रति तत्राज्ञातता न स्यात् / न च तत्र पुरुषान्तरीयज्ञानात्यन्ताभाव एवाज्ञाततेति वाच्यम् / अतिप्रसङ्गस्योक्तत्वात् / किञ्च परमते सुषुप्त्यादौ ज्ञानप्रागभावस्थाज्ञातत्वनिर्वाहाय तद्विषयज्ञानतत्प्रागभावावावश्यकौ / एवं तत्प्रागभावस्यापि तनिहाय तद्विषाज्ञानान्तरतत्यागभावावित्यनन्ताप्रामाणिकज्ञानतत्प्रागभावाद्यापत्तिः / किञ्च सति प्रागभावेऽयं प्रलापोऽर्थवान् सएवडुलिदुग्धप्राय इत्युक्तमित्याह-अभावत्वस्येति / प्रागभाव त्वरयेत्यर्थः / ननु प्रमाणजन्यावृतिस्तदवच्छिन्नचैतन्यं वा प्रमाणज्ञानं तत्र चक्षुर्जन्यवृत्ते रूपादिरहितविषयावच्छिन्नचैतन्यविषयत्वायोगात्कथं ततस्तद्विषयाज्ञाननिवृत्तिः वृत्त्यवच्छिन्न