________________ द्वितीयः परिच्छेदः 157 एतज्ज्ञानविषयदेशीयान्धकारस्थितिसमयास्थितिकप्रत्यक्षत्वे सति एतज्ज्ञानोत्पत्तिसमये एतद्विषयसम्बन्धित्वात् / एतद्विषयावारकनिवर्तकत्वादिति वा घटादिविषयान्धकारनिवर्तकालोको दृष्टान्तः / न चाप्रयोजकत्वम् / उक्तप्रमाणज्ञानस्य भावरूपाज्ञानविषयविषयत्वाभावे धारावाहिकद्वितीयादिज्ञानस्येवाप्रकाशितार्थप्रकाशत्वाभावप्रसङ्गात् / ज्ञानस्यापि निर्विकल्पकध्वंसोतत्तिकालीनस्थितिकत्वादसिद्धिवारणाय विशिष्टेति / एवमपि पुरुषान्तरीययत्किञ्चिद्विशिष्टज्ञानध्वंसोत्पत्तिकालीनस्थितिकत्वादसिद्धिः स्यात्तद्वारणाय-स्वसमानाधिकरणेति ! विवक्षान्तरमाह-एतज्ज्ञानेति / एतज्ज्ञानं पक्षीकृतज्ञानं तस्य यो विषयः तद्देशीयान्धकारस्थितिसमये अस्थितिः स्थित्यभावप्रयोजकं रूपं यस्य तत्तथा। तच्च तत्प्रत्यक्षं च तत्त्वे सति एतस्य ज्ञानस्योत्पत्तिसमये एतस्य ज्ञानस्य यो विषयः तत्संबन्धित्वादित्यर्थः। देशान्तरीयद्वितीयादिप्रमायां व्यभिचारवारणायैतद्विषयसंबन्धित्वादिति / धारागतद्वितीयादिज्ञानव्यावृत्तये एतज्ज्ञानोत्पत्तिसमय इति। न चैवमप्येतदुत्पत्तिसमय एतद्विषयसम्बन्धिपरकीयधारायां व्यभिचार इति वाच्यम्। परकीयप्रथमज्ञानस्यापि पक्षत्वेन तदुसत्तिकाले परकीयद्वितीयादिज्ञानस्य तद्विषयसम्बन्वित्वाभावात् / एतज्जनकनिर्विकल्पकादिनिवृत्तये प्रत्यक्षेति। एतद्विषयविषयकपरकीयानुमित्यादौ व्यभिचारवारणाय-अन्धकारे ते / परकीयद्वितीयादिज्ञानस्य एतद्विषयज्ञानसमकालीनतद्विषयविषयपरकीयानुमितिविशेषस्य तादृशान्धकारस्थितिसमयास्थितिकत्वेऽपि चाक्षुषज्ञानालोकवत्तत्प्रयोजकरूपवत्त्वाभावान्न तत्र व्यभिचारः / पक्षीकृतज्ञानस्यापि देशान्तरीयान्धकारकालीनत्वादसिद्धिवारणायैतज्ज्ञानविषयदेशीयेति / न च प्रथमालोकस्य द्वितीयाद्यालोकजन्यज्ञानकाले तद्विषयसम्बन्धित्वाभावात्साधनवैकल्पमिति वाच्यम्। प्रयमालोकजन्यज्ञानस्यैव पक्षत्वात् / यदा द्वितीयसाध्यं प्रत्युक्तहेत्वोः प्रयोगः तदा न तयोर्धाराव्यावर्तकविशेषणमुपादेयम् / तेन विनापि तत्र पूर्वज्ञाननिवर्तकतया तत्साध्यस्य सत्त्वेन व्यभिचाराभावात् / विवक्षान्तरमाह-एतद्विषयेति / इदं विशेषणमन्ययोगव्यवच्छेदपरम् / तथा च एतस्य पक्षीकृतचाक्षुषज्ञानस्य यो विषयो रूपविशिष्टद्रव्यं तन्मात्रस्य यदावारकं तन्निवृत्तौ तदन्यकारणत्वादित्यर्थः / अदृष्टेश्वरादेरन्यावारकनिवृत्तावपि हेतुत्वान्न तत्र व्यभिचारः / एतद्विषयावरकस्य स्वनिवृत्तौ कारणत्वेऽपि तदन्यत्वाभावान्न तत्रापि व्यभिचारः। एतद्विषयावारकपदेनतद्विषयो नास्तीत्यादिव्यवहारयोग्यताप्रयोजकमुच्यते। तच्चैतज्ज्ञानप्राक्काले नियतम् / एतज्ज्ञानादेतदज्ञानं निवृत्तमित्येवमनुभूयमानमज्ञानंतन्निवर्त्तकज्ञानप्रतिबन्धकान्धकारश्च /