SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 156 सटीकाद्वैतदीपिकायाम् विशेषणानीत्यभिप्रायः। येन विशेषणेन विना स्वाभिमतार्थो न सिध्यति तस्यैव साध्यविशेषणत्वात् / अन्यथाऽर्थान्तरतानिवृत्तये विशेषणं नोपादीयेत / ना पादानापरोक्षज्ञानजन्यत्वसाध्येऽदृष्टप्रागभावेत्यादि विशेषणं विना कार्यत्त्वमप्रयोजक भवति / उद्देश्यासिद्धः प्रकृतेऽपि तुल्यत्वात् / नीलधमप्रतिबन्दी त्वतितुच्छा। तेन विनापि तत्साध्यवह्नः सिद्धत्वात् / हेतुरपि स्वसमानाधिकरणविशिष्टज्ञानध्वंसोत्पत्तिसमयानाधारस्थितिकचाक्षुषसविकल्पकप्रथमालोकान्यान्यत्वादिति विवक्षितः। याऽर्थान्तरतावारणाय-स्वदेशगतपदमित्यर्थः / एवं तावत् सर्वविशेषणव्यावहँसत्त्वान्न कस्यापि वैयर्थ्यमित्युक्तम्। इदानीं तु एकेनापि विनोद्देश्यप्रतीत्यसिद्धेः सर्वमर्थवदित्याह--अथ बेति / यदुक्तं येन विशेषणेन विना हेनुरप्रयोजकः तेनैव साध्यं विशेषणीयमिति, तत्राह-येनेति / हेत्वप्रयोजकत्वनिवारकस्यैव साध्यविशेषणत्वे जीवो ब्रह्मप्रतियोगिकमिसमानसत्ताकभेदवान् इत्यादित्वदीयप्रयोगे धर्मिसमानसत्तेत्यादिविशेषणोपादानं न स्यात् / तेन विनाऽसर्वज्ञत्वादिहेतोरप्रयोजकत्वाभावादित्याह -अभ्यथेति / किं च हैतुकैरपि नित्यादिकमदृष्टप्रागभावव्याप्यप्रागभावाप्रतियोग्युपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यं कार्यत्वादिति प्रयोगेऽदृष्टप्रागभावेत्यादि जीवातिरिक्तसिद्धय एवोपात्तं तत्तु हेतोरप्रयोजकत्वाभावायेत्याह-न हीति / तस्मात् तत्र विशेषणाभावे उद्देश्यासिद्धिमानं तत्तु प्रकृतेऽपि तुल्यमित्याह -उद्देश्येति / यदप्युक्तं नीलमजन्य वह्नितीतेरुद्दे त्यत्वाद्धेतावपि व्यर्थविशेषगता न स्यादिति तद् दूषयति - नीलेति / ___ व्याप्तिपक्षधर्मताबलेनैव हेतोर्गमकत्वात् तदनुपयुक्तविशेषणं विना यभिमतसाध्यसिद्धेस्तद् व्यर्थमित्यर्थः / अप्रकाशितार्थप्रकाशकत्वादित्यत्र विवक्षितहेतुमाह- हे तुरपीति / स्वं पक्षीकृतज्ञानं तत्समानाधिकरणं यद्विशिष्टज्ञानं तद्ध्वंसोत्पत्तिसमयोऽनाधारो यस्याःस्थितेः तादृशस्थितिकं यच्चाक्षुषं सविकल्पकं तच्च प्रथमालोकश्च त दन्यान्यत्वादित्यर्थ; अन्धकारनिवर्तकालोकः प्रथमालोकः तदनिवर्तकालोके ज्यभिचारवारणाय-प्रथमे ते / असिद्धिसाधनवैकल्यपरिहाराय निर्विकल्पके व्यभिचारवारणाय च - सविकल्प केत्यादि / अन्यान्यत्वस्य तदुभयानुगताखण्डधर्मत्वान्न व्याप्यतावच्छेदकगौरवम् / न चोपाधेरखण्डत्वे तदतिरिक्तजात्यसिद्धिरिति वाच्यम् / इष्टापत्तेः / पराभिमतसुखत्वनिर्विकल्पकजन्यसुखविषयकसविकल्पके व्यभिचारवारणाय-चाक्षुषेति / धारायां द्वितीयादिज्ञाने व्यभिचारवारणाय ज्ञानेत्यादि / द्वितीयादिज्ञानस्य नियमेन प्रथमादिज्ञानध्वंसोत्पत्तिसमयाधारस्थितिकत्वान्न तत्र व्यभिचारः / न चैवमपीच्छाव्यवहितधटज्ञानविनाशकालोत्पन्नतद्घटज्ञाने व्यभिचार इति वाच्यम् / चाक्षुषपदेन विजातीयाव्यवधानेन चक्षुःसन्निकर्षजन्यत्वस्य विवक्षितत्वादस्य चातथात्वात् / पक्षीभूत
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy