________________ द्वितीयः परिच्छेदः 155 क्षणत्वेन स्वपूर्वत्वमस्तीत्यर्थान्तरता निरस्ता। इदं च साध्यं प्रागभावनिवृत्तिः प्रतियोग्यतिरिक्तेति मते। तेन स्वानिव]च्छाप्रागभावादिनाऽर्थान्तरवारणम् / स्वविषयावरणेति स्वप्रागभावादिनार्थांन्तरत्वं वारितम् / स्वप्रागभावव्यतिरिक्तस्वनिवर्त्य स्वदेशगतवस्त्वन्तरपूर्वकमित्यपरम / स्वसमानाधिकरणप्रागभावःस्वप्रागभावस्तेनेच्छाभ्रान्ति नागभावादिभिर्थािन्तरम् / आत्मत्वादिनाऽर्थान्तरतावारणाय स्वनिवर्त्यति / स्वदेशगतत्वं च स्वसमानाधिकरणत्वे सति प्रत्यक्षत्वम् / तेन स्वजनकादृष्टादिभिर्नार्थान्तरता // अथ वा एकमेव साध्यम् / अत्र च स्वदेशगतत्वं स्वाश्रये वर्तमानत्वम् / तेन संयोगादिप्रागभावपूर्वकत्वेन नार्थान्तरता / अथवाऽज्ञानस्य पराभिमतप्रागभावव्यावृत्तिज्ञानसमानविषयत्वज्ञाननिवर्त्यत्वज्ञानसमानाश्रयत्वानिर्वचनीयत्वसिद्धये नध्वंसोत्पत्तिसमयाधारस्थितिकघटज्ञाने न भागासिद्धिः। पराभिमतधारावाहिकव्यावृत्तये-सविकल्पकाजन्येति / सर्वज्ञानस्येश्वरसविकल्पकजन्यत्वादसंभववारणाय-जन्येति / स्वप्रागभावव्यतिरिक्तेत्यादिविशेषणैस्तावत्साध्यद्वयं विवक्षितमित्याह-स्वविषयेति / / विशेषणत्रयस्य विवक्षितमर्थमाह-स्वविषयावरणत्वमिति / अत्र पक्षोभूतज्ञानस्य स्वजननायोग्यत्वात् स्वजन्यध्वंसप्रतियोगित्वात् स्वोलत्तिक्षणानन्तरक्षणासंबन्वित्वेन स्वपूर्वत्वाच्चार्थान्तरतावारणाय वस्त्वन्तरपदमित्याहअनेनेति / स्वनिवर्येतिविशेषणकृत्यं वक्तुं वादिविशेषं प्रत्येवेदं साध्यमित्याह-इदं चेति / अस्मिन्मत इच्छाप्रागभावस्येच्छयैव निवर्त्यत्वेन ज्ञानानिवर्त्यत्वात् स्वनिवर्त्यपदेन तन्निवारणमित्याह-तेनेति / अत्र स्वप्रागभावस्य स्वनिवर्त्यत्वात्तत्पूर्वत्वेनार्थान्तरतावारणायाऽऽद्यविशेषणमित्याह - स्वविषयेति / स्वजनकादृष्टमादिपदार्थः। प्रतियोग्येव प्रागभावनिवृत्तिरिति वादिनं प्रति स्वनिवर्त्यपदविशिष्टेन साध्यान्तरमुच्यत इत्याह-- स्वप्रागभावेति / अस्मिन्मते स्वप्रागभावस्य स्वनिवर्त्यत्वाभावात्स्वनिवर्यपदेनैव तद्वयावृत्तेराद्यविशेषणं व्यर्थमित्याशय तदर्थं वदन् तस्योपयोगमाह-स्वसमानेति / अभावान्यत्वात् स्वप्रागभावान्यत्वस्य भिन्नत्वान्न स्वप्रागितिवैयर्थ्यमिति मन्तव्यम् / स्वदेशगतपदस्य स्वाधिक रणे गतं अवगतं साक्षात्कृतमित्ययमर्थोऽवगन्तव्य इत्याहस्वदेशेति / अदृष्टादिभिरित्यादिपदेन स्वजनकनिर्विकल्पकं स्वनिवर्त्य घटादिश्च गृह्यते // इदानीं सर्वविशेषणविशिष्टैकसाध्योक्तावपि न दोष इत्याह---अथ वेति / अत्रापि स्वदेशगतेत्येतदतिरिक्तविशेषणानां पूर्वोक्त एवार्थः। तैश्च यथाक्रममिच्छादिप्रागभावः स्वजनकादृष्टं आत्मत्वादीनि स्वयञ्च व्यावर्त्यन्ते / परिशिष्टस्वदेशगतपदस्यार्थं वदन् तद्वयावर्त्यमाह-अत्र चेति / संयोगादीति। तन्तुसंयोगपटादिकार्यप्रागभावानां चिकीर्षादिद्वारा संयोगादिकार्योत्पादकतन्त्वादिज्ञाननिवर्त्यत्वात्तत्पूर्वकत