________________ 154 सटीकाद्वैतदीपिकायाम् मानं निमित्तवृत्तित्वेन सोपाधिकत्वं च परास्तम् / तर्काभावेनास्य दुर्बलत्वात् साध्याव्यापकत्वाच्च, ब्रह्मणः सर्वात्मत्वप्रतिपादकानेकश्रुत्या कारणान्तरस्य बाधितत्वाच्च / तस्मादनादिज्ञाननिवर्त्यमुपादानं नाज्ञानादन्यदबाधितमिति तत्सिद्धिः / अविद्यानुमानान्तरम् एवं श्यामघटः पीतघटोपादानजडोपादानक: घटत्वात् पीतघटवत् / अन्यथा घटानुगतबुद्धराकस्मिकत्वप्रसङ्गात् / अविद्यातिरिक्तघटत्वे प्रमाणाभावादित्यादि द्रष्टव्यम् / विवादगोचरापन्नमित्याचार्यांनुमानमपि प्रमाणम् / तत्र जन्यसविकल्पकाजन्यचाक्षषघटप्रमाणज्ञानं स्वविषयावरणस्वनिवर्त्यवस्त्वन्तरपूर्वकमित्येक साध्यम्। स्वविषयावरणत्वं च स्वजननायोग्यत्वं स्वनिवर्त्यत्वं स्वजन्यध्वंसप्रतियोगित्वं वस्तुपदंच स्वपरं तदन्तरं तदन्यत् / अनेन स्वस्य स्वाधिकरणक्षणोत्तर प्रकृतहेतोरप्रयोजकत्वनिरसनमुपसंहरति-तत इति / उक्ततर्कोपोद्वलितहेतुना पक्षे साध्यनिश्चयादनेनैव दुर्बलं प्रत्यनुमानं बाध्यते। उपाधिश्च पक्षे एव साध्याव्यापक इत्याह-अत एवेति / किं च परमाण्वादिसत्यकारणमात्रजन्यत्वे प्रपञ्चस्य सत्यत्वे भेदस्यापि तथात्वाद् ब्रह्मणः सर्वात्मत्वाद्वितीयत्वपरानेकश्रुतिरुन्मत्तप्रलापःस्यात्, तदयुक्तम् / ततो न कारणान्तरं कल्प्यमित्याह-ब्रह्मण इति / उपादानत्वस्यानादिज्ञाननिवर्त्यवृत्तित्वसिद्धावपि कथमज्ञानसिद्धिरित्याशङ्क्यपरिशेषादित्याह--तस्मादिति / अनुमानान्तरमाह-एवमिति / अत्र पीतघटसमकालीनश्यामघट: पक्षः / तथा च श्यामघटावयवैरेव कालान्तरे पीतघटान्तरसंभवात्तदुपादानकत्वेन नार्थान्तरता / आत्मोपादानकत्वेनार्थान्तरतावार. णाय---जडेति / अप्रयोजकता निराकरोति-अन्यथेति | घटत्वजातिरेव घटाकारानुगतबुद्धेविषय इत्याशङ्क्याह-अविद्येति / जातिवादिनोऽपि तदाश्रयव्यक्तिविशेषस्यावश्यकत्वात्तद्विशेषेषपादानतयाऽनुगताविद्याया एवैकाकारबुध्यालम्बनत्वसंभवे नानन्तजातिः कल्पनीया इत्याधुपादानवादे वक्ष्यत इति भावः / एवमनादिभावत्वं ज्ञाननिवर्त्यवत्ति अनात्मवृत्तित्वात् घटत्ववत्, अनादित्वं ज्ञाननिवर्त्यभाववृत्ति जडभाववृत्तित्वात् घटत्ववत्, भावत्वमनादिज्ञाननिवर्त्यवृत्ति अनादिजडवृत्तित्वात् प्रागभावत्ववदित्यायूहनीयमित्याह-इत्यादि द्रष्टव्यमिति / विवरणाचार्यानुमानमप्यनवद्यमित्याह-विवादेति / तत्र विवादगोचरापन्नमितिपदसूचितं पक्षविशेषमाह-जन्येति / अप्रमायां पराभिमतनिविकल्पके च बाधपरिहाराय-प्रमाणपदम् / पराभिमतेश्वरज्ञानव्यावृत्तये-चाक्षुषेति / अत्र स्वपूर्वसविकल्पकध्वंससमये चक्षुर्जन्यत्वमभिप्रेतम् / तथा च वक्ष्यमाणहेतोः पटज्ञा