________________ द्वितीयः परिच्छेदः 153 अविद्याया आवश्यकत्वम् अनाश्रितवृत्तिकारणविभाजकधर्मत्वादिति वा हेतुः। न चाप्रयोजकत्वम् / सर्गाद्यकार्यस्योपादाना रानिरूपणात् निरवयवाणूनां संयोगासंभवेनोपादानत्वासंभवात् / कार्यस्य स्वन्यूनपरिमाणद्रव्यारब्धत्वस्य कार्यारब्धत्ववदप्रयोजकत्वात् नित्याणद्रव्ये प्रमाणाभावात् / आत्मा तु निरवयवत्वान्न परिणमते। विवर्तस्त्वविद्यां विना न संभवति / नापि पराभिमता प्रकृतिः / स्वतन्त्रप्रकृतौ मानाभावात्। परतन्त्रा साऽविद्यैव / तस्या अनादित्वात् ज्ञाननिवर्त्यत्वाच्च / ज्ञाननिवर्त्यत्वं च तस्या वक्ष्यते // जाताजाताभेदस्यानिर्वचनीयस्य तादृशाविद्यां विनाऽसंभवाच्च / ततः कारणान्तरासंभवान्ना प्रयोजकत्वम् / अत एवोपादानत्वमनादिज्ञाननिवर्त्यवृत्ति न भवति / निमित्तत्वातिरिक्तकारणत्वावान्तरधर्मत्वात् असमवायित्ववदिति प्रत्यनु असमवायिकारणत्वस्याश्रितगुणकर्ममात्रवृत्तित्वान्न तत्र व्यभिचार इत्यर्थः / विपक्षे बाधकसद्भावान्नाप्रयोजकताऽस्येत्याह-न चेति / किं सर्गाद्यकार्यस्य परमाणव उपादान सुताऽऽत्मा किं वा प्रकृतिः ? / आद्यं दूषयति-निरवयवेति / निरवयवसंयोगस्य साझिविवेके निरस्तत्वादसंयुक्तपरमाणूनामारम्भकत्वस्य परैरप्यनभ्युपगमान्न तेषां तदुपादानतेत्यर्थः / सर्गाद्यकार्यद्रव्यं स्वन्यूनपरिमाणद्रव्यारब्धं कार्यद्रव्यत्वात् पटवत् इत्यनुमानात्परमागुकारणतासिद्धिरित्याशक्याह--कार्यस्येति / दीर्घविस्तृतपटारब्धरज्जुद्रव्ये सागरसंभूततरङ्गादौ च व्यभिचारोऽपि द्रष्टव्यः / अनुभवसिद्धकाज्ञानेनैव सर्गाद्यकालीनसर्वकार्योपपत्तावनन्तपरमा गुकल्पने गौरवान्न तत्र किमपि मानमित्याह--नित्येति / द्वितीयेऽपि कार्यजात किमात्मनः परिणामः उत विवर्तः ? / नाद्य इत्याह--आत्मेति / द्वितीये भावरूपाज्ञानमावश्यकमित्याह--विवर्त्तस्त्विति / असत्त्यरूपान्तरापतिहि विवर्त्तः / तथा च विश्वस्य सद्रूपात्ममात्रकार्यत्वेऽसद्रूपत्वायोगात्तत्परिणामिनी तत्समानसत्ताकाऽविद्याऽऽवश्यकीत्यर्थः / तृतीयं दूषयति -नापीति / "मायां तु प्रकृति विद्यात्' इति श्रुतौ मायैव प्रकृतिरित्याशक्याह-परतन्त्रेति / मायाया अप्यविद्यालक्षणवत्त्वादिति हेतुमाहतस्या इति / मायाया ज्ञाननिवयं त्वमसिद्धमित्याशङ्य तन्मायाविद्यययोरभेदवादे निरूपपिष्यत इत्याह ज्ञानेति / किं च मृदादिकारणाभिन्नमेव घटकुड्याद्यनुभूयते मृदेव घटः, सुवर्णमेव कुण्डलमिति / कार्यकारणयोश्च जाताजातयोश्च विरोधेन वास्तवाभेदायोगादनिर्वचनीय एव स इति तदुपपादकतया तादृशाज्ञानमावश्यकम् / तथा द्वितन्तुकपटाभेदेनेवोत्तरपटस्योत्प तेस्तत्रापि जाताजाताभेदस्य वास्तवस्यासंभवादनिर्वचनीय एव स तादृशकारणं विनाsनुपपन्न इति उपादानवादे वक्ष्यमाणत्वाच्च तदावश्यकमित्याह-जाताजातेति / 20