SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 152 सटीकाद्वैतदीपिकायाम् लिङ्गशरीरनिवृत्तिर्मुक्तिरिति च न साधु / तन्मात्रस्यापुरुषार्थत्वात् / तस्माद्वैदिकैरानन्दात्मरूपाविद्यानिवृत्तिर्मोक्ष इत्यवश्यमज्ञानपभ्युपगन्तव्यं तच्छास्त्रार्थवत्त्वाय। किञ्च उपादानत्वमनादि ज्ञाननिवर्त्यवृत्तिकारणत्वावान्तरधर्मत्वात् निमित्तत्ववत् / न चासमवायित्वे व्यभिचारः। तस्यैव गगनप्रसूनायमानत्वात् / तत्र वास्तवसकोचाद्यसंभवेन दूषयति-न चेत्यादिना। अवास्तवसुखसंकोचादिस्तादृशाज्ञानं विनाऽनुपपन्न इति भावः / पञ्चममपवदति--लिङ्गति / तन्मात्रस्येति / साक्षात्परम्परया वा सुखस्यैव पुरुषार्थत्वादित्यर्थः / एवं पराभिमतमोक्षस्य ज्ञानफलत्वासंभवाद्वेदप्रामाण्यवादिभि "रनृतेन हि प्रत्यूढाः" “अनीशया शोचति मुह्यमानः" "ब्रह्मैव सन् ब्रह्माप्येति" इत्यादिश्रुतिपर्यालोचनया प्रत्यग्रूपब्रह्मानन्दावरक निखिलानर्थनिदानानिर्वचनीयाज्ञाननिवृत्तिरेव ज्ञानफलमित्यभ्युपेयमित्याहतस्मादिति / भावरूपाज्ञानेऽनुमानान्तरमाह- किं चेति / मृदादिवृत्तित्वेन सिद्धसाधनतावारणायानादीति / आत्मवृत्तित्वेन सिद्धसाधनतावारणाय-ज्ञाननिवर्येति / अत्र यद्यपि ज्ञानपदं विनाऽप्युक्तदोषपरिहारः तथापि ज्ञाननिवर्त्यत्वघटिताज्ञानलक्षणसिद्धये तदिति द्रष्टव्यम् / इच्छाप्रागभाव उपादानत्वस्य बाधितत्वान्न तद्वृत्तित्वेनार्थान्तरताशङ्कनीया। कारणत्वावान्तरेति / कारणविभाजकधर्मत्वादित्यर्थः। द्रव्यत्वादौ व्यभिचारवारणाय-कारणेति / निमित्तत्वस्यानादिज्ञाननिवर्येच्छाप्रागभावे परस्य संमतत्वात्तदनुरोधेन दृष्टान्तमाह-निमित्तत्ववदिति / समवायस्य तुच्छत्वेन तदधीनासमवायिकारणत्वस्यापि तथात्वान्न तत्र व्यभिचार इत्याह-न चेति / ननु समवायाभावेऽप्युपादानप्रत्यासन्नत्वे सति कारणत्वं तन्तुसंयोगादौ विद्यमानमसमवायिकारणत्वमिति चेत्, न धर्मादेरपि सुखाद्यसमवायिकारणत्वप्रसङ्गात् / न चेष्टापत्तिः। असमवायिकारणावच्छिन्नप्रदेशे कार्यनियमेनादृष्टाश्रयमनुष्यशरीरोपहितात्मप्रदेश एवानुष्मिकसुखादिप्रसङ्गात् तन्तुरूपादेः पटरूपादिकं प्रत्यसमवायिकारणत्वायोगाच्च / किं च प्रत्यासत्तिः किं तादात्म्यं संयोगो वा स्वरूपसम्बन्धो वा ? / नाद्यः / भिन्नयोर्वास्तवतादात्म्यायोगात् / अवास्तवस्य तस्य निमित्तेऽपि संभवात् भेदस्याप्रामाणिकत्वादतिप्रसक्तत्वाच्च / न द्वितीयः / तन्तुसंयोगादावभावात्, निमित्तेऽपि सत्त्वाच्च / न तृतीयः / तन्तुगोचरज्ञानादेरपि पटासमवायिकारणत्वप्रसङ्गात् / तस्मादसमवायिकारणत्वं नाम न किञ्चिदिति भावः / तदङ्गीकृत्याप्याह--अनाश्रितेति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy