________________ 141 द्वितीयः परिच्छेदः धर्मादिरूपबन्धहेतोः सत्यत्वे ज्ञानानिवर्त्यत्वप्रसङ्गात् / एतच्चाने उपपादयिष्यते / भोगादेवकर्मणां क्षय इति चेत् न तथापि ज्ञानवैयर्थ्यप्रसङ्गात् / अनन्तकर्मणां युगपभोगासंभवात्। क्रमेण च भोगे कर्मप्रवाहस्यानुच्छेदप्रसङ्गात् / आनन्दस्यापि जन्यस्यामृतत्वायोगात / मुक्तौ शरीराद्यभावेन तदुत्पत्त्यसंभवाच्च / नित्यानन्दाभिव्यक्तिर्मोक्ष इत्यत्राप्यभिव्यक्तिः प्रागस्ति न वा ? / अन्त्ये कार्यत्वादनित्यत्वापत्तिः, पश्चाच्च शरीराद्यभावान्नोत्पत्तिरिति मुक्तरनित्यत्वप्रसङ्गः। प्रथमे वाऽनावृतस्य तस्येदानीं सत्त्वेऽनुपलम्भो न स्यात् / आवरणस्य स्वरूपभूते स्वधर्मे वाऽऽनन्दे वास्तवस्यासंभवात् / न हि प्रकाशमानत्वमप्रकाशमानत्वं च युगपदेकस्य वस्तुनः संभवति / न चेदानीमानन्दः संकुचितो मुक्तौ तु विस्तृत इति वाच्यम् / निरवयव आनन्दे वास्तवसंकोचादेरसंभवात् // सुखं वा, नित्यसुखाभिव्यक्तिर्वा, लिङ्गशरीरनिवृत्तिर्वा ? / आद्यं दूषयति-दुःखध्वंसस्येति / तस्य पश्वादिवत्सुखव्यञ्जकत्वेन सुखशेषत्वेन स्वतः पुरुषार्थत्वायोगादित्यर्थः / किंच निषिद्धाचरणेनैव सर्वदुःखप्रागभावक्षये तत एवात्यन्तिकदुःखनिवृत्तरूपपत्तेर्न तत्ज्ञानफलमित्याह-तत्त्वज्ञानमिति / द्वितीयं दूषयति-धर्मेति / सत्यस्य ज्ञानानिवर्त्यत्वं मायाविद्याऽभेदवादे वक्ष्यत इत्याह-एतच्चेति / सत्यधर्मादेः ज्ञाननिवर्त्यत्वासंभवेऽपि भोगादेव निवृत्तिरिति लब्धावकाशस्तार्किकवराकः शङ्कते-भोगादेवेति / तहि तत एव कर्मनिवृत्तेरुपपत्तेर्ज्ञानवैयर्थ्यं तदवस्थमित्याह-न तथापीति / किं च किं कर्मणां युगपद्भोगेन क्षयः क्रमेण वा ? / नाद्य इत्याह-अनन्तेति / केषांचित्कर्मणां क्रमिकानेकजन्मफलकत्वात्केषांचिदनेकलोकवृत्त्युपभोग्यफलकत्वाच्च न तेषां कायव्यूहेऽपि युगपद्भोगसम्भव इत्यर्थः॥ द्वितीयं दूषयति-क्रमेणेति / संचितानन्तकर्मसु केनचिन्मनुष्यशरीरारम्भस्यावश्यकत्वात् तत्रापि तादृशकर्मान्तरस्यावश्यंभावान्न कदापि कर्मतत्फलभोगोपरम इत्यर्थः / तृतीयं दूषयति-आनन्दस्येति / भावकार्यस्यानित्यत्व नियमात् जन्यसुखात्मकमुक्तिरनित्या स्यादित्यर्थः / सुखव्यक्तेरनित्यत्वेऽप्यविच्छिन्नस्तत्प्रवाह एव पुरुषार्थ इत्याशक्याह-मुक्ताविति / चतुर्थमपि दूषयितुं विकल्पयति-नित्येति / प्रागिति / तत्त्वज्ञानात्प्रागित्यर्थः। नेति पक्षं दूषयतिअन्त्ये इति / अभिव्यक्तेरनित्यत्वेऽपि तत्प्रवाहोऽविच्छिन्न इत्याशङ्क्याह--पश्चाच्चेति / अभिव्यक्तिः प्राग'यस्तीति पक्षे तहिषयानन्दः किं तदाऽनावृत आवृतो वा ? / आये दोषमाह--अनावृतस्येति / द्वितीये तदावरणं किं वास्तवम्, उतानिर्वचनीयम् / आद्यं दूषयति-आवरणस्येति / द्वितीयं तु अनिवर्चनीयाज्ञानकृत्यमिति तदभावे तदसंभव इति भावः / सर्वदाऽनावृत एवानन्दः संसारदशायां संकुचितो मुक्ती विस्तृत इति चोद्यम् /