________________ 150 सटीकाद्वैतदीपिकायाम् मूलाज्ञाने प्रमाणम् ___ एवं ब्रह्मज्ञानेऽपि प्रयोक्तव्यम् / न चाप्रयोजकत्वम् / घटाद्यज्ञानाभावे तद्विषयभ्रमानुत्पादप्रसङ्गात् / भ्रमविषयेन्द्रियसंप्रयोगाभावेन तस्य तदजन्यत्वात्, न जानामीत्यननुभवप्रसङ्गाच्च / मूलाज्ञानानङ्गीकारे मोक्षशास्त्रानर्थक्यप्रसङ्गात् / दुःखध्वंसस्यापुरुषार्थत्वात् / तत्त्वज्ञानं विनाऽपि प्रागभावक्षयादेवोपपत्तेश्च / धर्मा अत्र निवर्तकपदेन तन्निवृत्तौ चरमकारणत्वमभिप्रेतम् / तथा च सिद्धान्ते वृत्तिज्ञानस्य यावत्कारणनाशं स्थायित्वाभ्युपगमात् उक्तविशेषणविशिष्टस्वनिवृत्तौ स्वस्य चरमकारणत्वाभावेन न स्वनिवर्तकत्वेनार्थान्तरता। एवं चेष्टानपेक्षज्ञानाजन्यप्रत्यक्षनिवर्तकं चेष्टाऽ जन्यकार्यातिरिक्तप्रत्यक्षनिवर्तकंचेष्टानिमित्तजातीयातिरिक्तप्रत्यक्षनिवर्तकम्, अहमनुभवविषयधर्मातिरिक्तनिवर्तकमित्येवमादि साध्यान्तरं द्रष्टव्यम् / तत एव तद्वदिति / बाह्यविषयजन्यप्रमात्वात् / संजिहीर्षाद्वारा ध्वंसजनकघटादिप्रत्यक्षवदित्यर्थः / जन्यज्ञानासहकृतेत्यादिसाध्यद्वये प्रतियोगिजातीयातिरिक्तपदेन बाह्यावृत्तितादृशध्वंसप्रतियोगिवृत्तिजातिमद्भिन्नत्वं विवक्षितमित्युक्तं, तन्न, वाह्यावृत्तिजातिमद्भिन्नप्रत्यक्षनिवर्त्तकमित्येतावतैव विवक्षितसिद्धर्जन्यज्ञानेत्यादिविशेषणवैयर्थ्यमित्याशङ्क्याह-विशिष्टाभावस्येति / बाह्यावृत्तिजातिमद्भिन्नत्वापेक्षयोक्तध्वंसप्रतियोगिवृत्तितादृशजातिमद्भिन्नत्वस्यान्यत्वादस्यैवात्र साध्यत्वान्न वैयर्थ्यमित्यर्थः / एवम् अयं घट एतद्धटाज्ञानान्यान्यभावान्यः मेयत्वात्पटवत् / अज्ञानं स्वस्वेतरवृत्तित्वरहितभाववृत्तिधर्माधिकरणम् / अज्ञानत्वं स्वस्वेतरवृत्तित्वरहितभाववृत्तिवृत्तिधर्माधिकरणम् / भावत्वं स्वस्वेतरवृत्तित्वानधिकरणाज्ञानवृत्तिवृत्तिधर्मवत् मेयत्वात् घटवदिति महाविद्याप्रयोगोऽपि द्रष्टव्यः / ___ ब्रह्मसाक्षात्कारः स्वसमानविषयभावरूपाज्ञाननिवर्तकः / अज्ञातविषयसाक्षात्कारत्वात् घटादिसाक्षात्कारवत् / न च दृष्टान्तः साध्यविकलः साधितत्वादित्यभिप्रेत्याहएवमिति / ___उक्तानुमानानां विपक्षे बाधकतर्काभावादप्रयोजकत्वमित्याशङ्कां हेत्वसिद्धया दूषयति-न चेति / घटाद्यज्ञानाभाव इति / घटाद्यवच्छिन्नचैतन्यविषयभावरूपाज्ञानाभावे तत्रवल्मीकादिभ्रमायोगादित्यर्थः। दुष्टेन्द्रियादेवान्यथाख्यातिभ्रमोपपत्तिरित्याशङ्क्याहभ्रमेति / एतच्चान्यथाख्यातिभङ्गे निपुणतरं वक्ष्यत इति भावः। प्रागभावस्य निरस्तत्वात्तस्य ज्ञानसामान्याविरोधित्वाच्च भावरूपाज्ञानाभावे न जानामीत्यनुभव एव न स्यादित्याह - न जानामीति / वियदाधुपादानभूतब्रह्मविषयाज्ञानाभावे बाधकमाहमूलेति / स्वप्रकाशस्वरूपानन्दावारकभावरूपाज्ञाननिवृत्तिव्यतिरेकेण मोक्षशास्त्रजन्यतत्त्वज्ञानसाध्याभावादित्यर्थः / किमात्यन्तिकदुःखध्वंसो ज्ञानसाध्यः बन्धहेतुधर्मादिनिवृत्तिा,