SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः 149 अन्यध्वंसप्रतियोगिजातीयातिरिक्तज्ञानान्यप्रत्यक्षनिवर्तकं, जन्यज्ञानाजन्यध्वंसप्रतियोगिजातीयातिरिक्तज्ञानान्यप्रत्यक्षनिवर्तकं, गुणत्वानधिकरणप्रत्यक्षनिवर्त. कंस्वस्थितिक्षणनियतस्वविनाशसामग्रीमद्धिन्नप्रत्यक्षनिवर्तकमिति वा साध्यम् / तत एव तद्वत् / विशिष्टाभावस्य साध्यत्वान्न व्यर्थविशेषणत्वम् // च्छादिनिवर्तकत्वेनार्थान्तरतावारणाय कार्येति / स्वसमानाधिकरणातिरिक्तेत्युक्ते बाधः / अज्ञानस्यापि स्वसमानाधिकरणत्वेन तदतिरिक्तनिवर्तकत्वाभावात्, तन्निवारणायकार्येति / अज्ञानस्य कार्यत्वाभावादेव तद्विशिष्टस्वसमानाधिकरणातिरिक्तत्वसंभवान्न बाधः / वस्तुतो दृष्टान्ते साध्यवैकल्यपरिहाराय स्वसमानाधिकरणेति ध्येयम्। परमतानुसारेण घटादिप्रागभावनिवर्त्तकमृदादिप्रत्यक्षदृष्टान्तमभिप्रेत्य साध्यान्तरमाह-कार्यत्वेति / अत्रापीच्छादिनिवर्तकत्वेनार्थान्तरतावारणाय-विशेषणम् / साध्यान्तरमाह-जन्यति / जन्यज्ञानासहकृता या सामग्री तज्जन्यो यो ध्वंसः तत्प्रतियोगिजातीयान्यद् यत् ज्ञानान्यप्रत्यक्षं तन्निवर्तकमित्यर्थः / अत्र ध्वंसप्रतियोगिजातीयपदेन तादृशध्वंसप्रतियोगिवृत्तिबाह्यवृत्तिजातिमत्त्वं विवक्षितम् / तथा च न घटध्वंसजनकतत्प्रत्यक्षे साध्यवैकल्यम् / जातिरहितप्रागभावनिवर्तकमृदादिज्ञानं वाऽत्रापि दृष्टान्तः / स्वस्य विशेषणज्ञानस्य च स्वजन्यध्वंसप्रतियोगित्वात्तन्निवर्तकत्वेनार्थान्तरतावारणाय-ज्ञानान्येत्युक्तम् / इच्छादिनिवर्तकत्वेनार्थान्तरतावारणाय-ध्वंसप्रतियोगिजातीयातिरिक्तेत्युक्तम् / अज्ञानस्यापि ध्वंसप्रतियोग्यज्ञानान्तरजातीयत्वात्तदतिरिक्तनिवर्तकत्वं ज्ञाने बाधितमिति तद्वारणाय-ज्ञानासहकृतेति / अज्ञानस्य नियमेन ज्ञानसहकृतसामग्रीजन्यध्वंसप्रतियोगित्वेन तदसहकृततज्जन्यध्वंसप्रतियोगिजातीयत्वाभावान्न बाधः / सर्वध्वंसस्येश्वरज्ञानसहकृतसामग्रीजन्यत्वादप्रसिद्धिवारणाय-जन्येति / / एतदेव साध्यं प्रकारान्तरेणाह-जन्येति / जन्यज्ञानेनाजन्यो यो ध्वंसस्तत्प्रतियोगिजातीयान्यद् यत् ज्ञानान्यत्प्रत्यक्षं तन्निवर्तकमित्यर्थः / अत्रापि ध्वंसप्रतियोगिजातीयशब्दार्थः पूर्ववदेव / ज्ञानध्वंसस्य नियमेन जन्यज्ञानजन्यत्वात् ज्ञानस्य तदजन्यध्वंसप्रतियोगिजातीयातिरिक्तत्वेन तन्निवर्तकतयाऽर्थान्तरतावारणाय - ज्ञानान्येति / जिज्ञासाधनन्तरभाविज्ञानस्येच्छादिनिवर्तकत्वेनार्थान्तरतावारणाय-ज्ञानाजन्येत्यादि / अप्रसिद्धिवारणाय-जन्येति / __साध्यान्तरमाह -- गुणत्वेति / अत्रापीच्छादिनिवर्तकत्वेनार्थान्तरवारणाय गुणत्वानधिकरणेति ; सिद्धान्ते वृत्तिज्ञानस्य परभिमतपरिभाषिकद्रव्यत्वेपि स्वाभिमतगुणत्वस्यापि सत्त्वान्न तन्निवर्तकत्वेन मतद्वयेऽप्यर्थान्तरता / अपरं साध्यमाह--स्वस्थितीति / स्वस्थितिक्षणे नियता या स्वविनाशसामग्री तद्वतो भिन्नं प्रत्यक्षं तन्निवतकमित्यर्थः। अत्रापीच्छादिनिवर्तकत्वेनार्थान्तरतावारणाय स्वस्थितीत्यादि विशेषणम् /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy