SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 148 सटीकाद्वैतदीपिकायाम जनकघटादिप्रत्यक्षप्रमा ज्ञानातिरिक्तप्रत्यक्षनिवर्तिका वाह्यविषयजन्यप्रमात्वात् प्रतियोगिप्रत्यक्षवत् / अभिहितज्ञाननिवयं चाबाधितं नास्मदभिमताज्ञानादन्यत्संभवति / यद्वा प्रत्यक्षधर्माजनकघटादिप्रत्यक्षप्रमाणज्ञानं कार्यस्वसमानाधिकरणातिरिक्तप्रत्यक्षनिवर्तकं, कार्यत्वानधिकरणप्रत्यक्षनिवर्तकं, जन्यज्ञानासहकृतसामग्री जनकतत्प्रतियोगिप्रत्यक्षवदित्यर्थः / प्रमामात्रस्य पक्षले स्वमते परो प्रमायां बाधः / तन्निवारणाय प्रत्यक्षप्रमेत्युक्तम् / अत्र प्रमापदं स्वसामग्रीकालीनजन्यविशिष्टज्ञानानधिगतार्थविषयप्रमापरम् / तेन धारावाहिकद्वितीयादिप्रमायां न बाधः / स्वमते शब्दादिजनिताऽहमाकारवृत्तेरपरोक्षप्रमात्वात्तत्र बाधवारणाय घटादीति / इच्छादिजनकघटादिप्रमायां परमते तत्प्रागभावनिवर्तकत्वेन सिद्धसाधनतावारणाय-धर्माजन केति / पक्षीकृतज्ञानस्यापि संस्कारजनकत्वादसंभववारणाय प्रत्यक्षधर्मेत्युक्तम् / अत्र धर्मपद भावरूपधर्मपरम् / तेन प्रत्यक्षस्य स्वध्वंसस्य जनकत्वेनाविद्यानिवृत्तरात्मातिरेकमते तज्जनकत्वेन वा नासंभवः जिज्ञासाद्यनन्तरभाविघटादिप्रमायास्तन्निवर्तकत्वेनार्थान्तरतावारणायेच्छाद्यसमानकालीनसामग्रीजन्येत्युक्तम्। अत्रादिपदेन द्वेषप्रयत्नौ गृह्यते / साध्येऽपि संस्कारप्रागभावनिवर्तकत्वेनार्थान्तरतावारणाय' --प्रत्यक्षपदम् / स्वनिवर्तकत्वेन विशेषणज्ञाननिवर्तकत्वेन चार्थान्तारतावारणाय-ज्ञानातिरिक्तति / हेतौ परोक्षप्रमायां व्यभिचारवारणाय-विषयजन्येति पदम् / उक्ताहमाकारवृत्तौ व्यभिचारवारणाय-बाह्यति / अत्रापि प्रमापदं स्वसामग्रीकालीनजन्यज्ञानाविषयविषयप्रमापरम्। तेन धारायां द्वितीयादिशाने न व्यभिचारः। अत्रायमनुमाननिष्कर्षः- इच्छाद्वेषप्रयत्नासमानकालीनसामग्रीजन्यप्रत्यक्षभावधजिनकस्वसामग्रीकालीनजन्यावशिष्टज्ञानाविषयविषयक घटादिप्रत्यक्षप्रमा, ज्ञानातिरिक्तप्रत्यक्षनिवर्तिका, स्वसामग्रीकालीनजन्यविशिष्टज्ञानाविषयकवाह्यविषयजन्यप्रमात्वात् / स्वविषयध्वंसजनकप्रत्यक्षवदिति / नन्वज्ञानादन्यदेव प्रत्यक्षं वस्तुक्तप्रमानिवर्त्यमस्त्वित्याशङ्कयाह-अभिहितेति / स्वस्य स्वप्रागभावनिवृत्तिरूपत्वेन तन्निवर्तकत्वायोगात् इच्छातत्प्रागभावाद्यनिवर्तकस्यैव पक्षत्वात्तदन्यस्य प्रत्यक्षस्य तन्निवर्त्यत्वं बाधितमिति अनिर्वचनीयाज्ञानमेव तादृशं सिद्धयतीत्यर्थः। इदानीं पक्ष आद्यविशेषणं परित्यज्य साध्ये विशेषणान्तराणि वदन् उक्तहेतोः षट् साध्यान्याह-यद्वति / अत्रापि पक्षविशेषणकृत्यं पूर्ववदेव / कार्यत्वे सति स्वेन पक्षीकृतज्ञानेन समानाधिकरणमिच्छादि तदतिरिक्तं यत्प्रत्यक्षं तन्निवर्तकमित्येक साध्यम् / सर्वत्रापि संस्कारप्रागभावनिवर्तकत्वेनान्तिरतावारणाय-प्रत्यक्षेति / ज्ञाने
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy