________________ द्वितीयः परिच्छेदः 147 न चैवं सिद्धान्तेऽपि कथं सुषुप्तौ ज्ञानाभावनिश्चय इति वाच्यम् / न किञ्चि. दवेदिषमिति परामर्शसिद्धसर्व विषयाज्ञानान्यथानुपपत्त्या तस्य कल्प्यत्वात् / अत एव रागाद्यभावानुमानमपि तद्विषयज्ञानाभावस्यैव तदनुत्पत्तिव्याप्यत्वात् / न चैवमात्मादिगोचरेच्छाद्मभावो न सिध्येत, तज्ज्ञानस्य तदानीमपि सत्त्वादिति वाच्यम् / सविकल्पकज्ञानस्यैव तद्धतुतया तदभावानुमानादेव तदभावस्थापि सिद्धत्वात् / किं च सुषुप्तौ ज्ञानाद्यभावोऽपि साक्षिणाऽनुभवितुं शक्यते / न चैवं तदाऽ ज्ञानाद्यसिद्धिप्रसङ्घः। तस्य तदाऽप्यावश्यकत्वेन जाग्रतीव 'नावेदिषम्' इत्यनुभवस्य तदेकविषयत्वात् / भावरूपाज्ञाने अनुमानोपपत्तिः अनुमानमपि तत्र प्रमाणम् / इच्छाद्यसमानकालीनसामग्रीजन्यप्रत्यक्षधर्मामतद्वयेऽपि केषाञ्चित्काष्ठलोष्टादिज्ञानानां सतामप्यस्मर्यमाणत्वात्तत्र व्यभिचारश्चेत्याहजाग्रतीति / अतुमितिकारणं विनापि सौषुप्तिकाज्ञानानुसन्धानदर्शनान्नेयमनुमितिरित्याहलिङ्गति / ___ यदुक्तमुक्तलिङ्गः स्वापे ज्ञानाभावासिद्धौ सिद्धान्तेऽपि तदसिद्ध्यापात इति, तद् दूषयति-न चैवमिति / ___अज्ञानान्यथानुपपत्त्येति / भावरूपाज्ञानेन तद्विरोध्यपरोक्षज्ञानाभावसिद्धौ लिङ्गदर्शनादेरभावात् परोक्षज्ञानाभावोऽपि सिध्यदिति भावः / यदप्युक्तम्-एवं सति रागविरोधिद्वेषस्य त्वत्राभावात्तदभावासिद्धिरिति, तत्राह--अत एवेति / इष्टज्ञानादेरभावादित्यर्थः / ज्ञानाभावात्कथं रागाद्यभावसिद्धिरित्याशङ्कयाह--तद्विषयेति / तर्हि तदा ज्ञायमानात्मसुखादिविषयरागाद्यभावो न सिध्येदिति यदुक्तं तद् दूषयति--न चैवमिति : आत्मनो निर्विकल्पकज्ञानेन स्फुरणेऽपि तदा रागादिहेतोः सविकल्पकस्याभावात्तदभावसिद्धिरित्याह--सविकल्पकेति / स्वापकालीनस्य ज्ञानाद्यभावस्थानुमेयत्वमङ्गीकृत्येदमुक्तम् / वस्तुतस्तस्य तदा नित्यसाक्षिवेद्यत्वसंभवादुत्थितस्य नापश्यं नाश्रौषमिति तत्परामर्श एवेत्याह--किं चेति / नन्वेवं सति न किंचिदवेदिषमित्यस्यापि ज्ञानाभावविषयत्वसम्भवात्ततोभावरूपाज्ञानासिद्धिरिति चेत् न / भावरूपाज्ञानं विना साक्षिणो दृश्यसंबन्धायोगित्वेन तस्यावश्यकत्वात् / नावेदिषमितिज्ञानसामान्यविरोधितया परामृश्यमानाज्ञानस्य विशेषाभावरूपत्वायोगाच्चेत्याह--न चैवमित्यादिना / एवं भावरूपाज्ञाने प्रत्यक्षमुपपाद्यानुमानमप्याह--अनुमानमिति / इच्छाद्यसमानकालीना या सामग्री तज्जन्या प्रत्यक्षधर्मभूतेच्छाद्यजनिका च या घटादिप्रत्यक्षप्रमा साऽत्र पक्षः / ज्ञानातिरिक्तप्रत्यक्षस्य नित्तिकेति साध्यम् / बाह्यो यो विषयोघटादिः तज्जन्यप्रमात्वादिति हेतुः / प्रतियोगिप्रत्यक्षवदिति / संजिहीर्षाद्वारा ध्वंस