________________ 146 सटीकाद्वैतदीपिकायाम नाभावज्ञानात् प्राक् तदतिरिक्तत्वस्य दुर्विज्ञेयत्वात् / एतेन सामग्यभावेन ज्ञानाभावोऽनुमीयत इति प्रत्युक्तम् / तत्रापि पक्षस्य दुनिरूपत्वात् / सामग्य भावस्यापि कार्याभावोन्नेयत्वात्। न चेन्द्रियप्रसादेन तदुपरमानुमानात् सामग्यभावोऽन्यतः सिद्ध इति वाच्यम् / वाह येन्द्रियोपरमेऽपि स्वप्ने विषयज्ञानतत्सामग्योः सत्त्वात, शोभनस्वप्नदर्शनादपि मनः प्रसादस्य सत्त्वेनान्यथासिद्धश्च / / नापि तत्तुल्ययोगक्षेमात्मादौ स्मर्यमाणेऽपि नियमेनास्मर्यमाणत्वलिङ्गादनुमितिः / परमते सुषुप्तिकालीनात्मनोऽस्मर्यमाणत्वेन विशेषणासिद्धः, जाग्रत्कालोन आत्मनि ज्ञानस्यास्मर्यमाणत्वासिद्धेश्च / सुषुप्तिकालेऽस्मर्यमाणत्वं हेतुरिति चेत्, न / असिद्धः, निखिलविषयज्ञानाभावस्यैव सुषुप्तित्वात, वेद्यजानवादेऽननुभूतज्ञानस्यापि सम्भवादप्रयोजकत्वात, जाग्रति तादृशज्ञाने ब्यभिचाराच्च, लिङ्गव्याप्त्याद्यनुसन्धान विनापि नावेदिषमिति परामर्शदर्शनात् / हेतुरपि दुनिरूप इत्याह-अवस्थेति / एतदीयसुप्तेरन्यदीयजाग्रदादिकालत्वादसिद्धिः / एतदीयजाग्रत्कालाद्यन्यत्वविवक्षायामन्यदीयजाग्रति व्यभिचार इत्यभिप्रेत्याहतन्नेति / किं च कतिपयज्ञानवद् जाग्रत्स्वप्नकालातिरिक्तत्वस्य निखिलज्ञानाभावत्वग्रहं विना दुर्गहत्वावेतोरज्ञाततासिद्धिरित्याह-निखिलेति / परोक्तं द्वितीयलिङ्गमपि दूष यति-एतेनेति / एतच्छब्दार्थमाह-तत्रापीति / निखिलज्ञानाभावग्रहं विना तत्सामग्रयभाव एव दुर्ग्रह इत्याह--सामग्रीति / यदप्युक्तं प्रत्यक्षसिद्धेन्द्रियप्रसादेन तदुपरमानुमानात्सामग्रयभावः सिद्ध इति तदप्ययुक्तमिति दूषयति-न चेति / / ननु मनःप्रसादेन मनसोऽप्युपरमानुमानान्निखिलज्ञानसामग्र्यभावसिद्धिरित्याशङ्य तत्प्रसादोऽन्यथापि सम्भवतीत्याह-शोभनेति / इन्द्रियाणामतीन्द्रियत्वेन परमते तत्प्रसादो दुर्विज्ञेय इत्यपि द्रष्टव्यम् / तृतीयं लिङ्गमपि दूषयति-नापीति / पराभिमतात्मनो जडत्वेन सुषुप्तावजुभवासंभवात्तस्य जाग्रति स्मर्यमाणत्वायोगाद्विशेषणासिद्धो हेतुरित्याह-परमत इति / विशेष्यासिद्धिमप्याह-जाग्रत्कालीन इति / विशेष्यासिद्धिपरिहाराय हेतुविशेषणं शङ्कते-सुषुप्तीति / निखिलज्ञानाभावज्ञानात्पूर्व सुषुप्तेरेवाज्ञानादसिद्धिरित्याह-न असिद्धेरिति / सुषुप्तौ सतोऽपि ज्ञानस्यानुभवाभावादपि स्मरणाभावोपपत्तरप्रयोजकताऽपीत्याह-विद्येति / नवीनमते ज्ञानस्य स्वविषयत्वेऽपि संस्कारप्रमोषादिना स्मरणाभावसंभवात्तत्राप्यप्रयोजकतेति भावः /