________________ द्वितीयः परिच्छेदः 145 अस्मदभिमताज्ञानं तु सुषुप्तावपि साक्षिणा विषयव्यावृत्तमेवानुभूयते / विषयस्याप्यज्ञाततया नित्यानुभवमात्रवेद्यत्वात् / न चैवं जागरण इव 'अहमज्ञो घटं न जानामि' इति प्रत्ययप्रसङ्ग इति वाच्यम् / तदाऽज्ञानसाक्षिणः सविकल्पकतापादकाहङ्कारस्याभावेन तथाऽननुभवात् / यत्त्वयं न सौषुप्तिकाज्ञानस्य परामर्शः किं त्वनुमानमिति, तन्न / तत्र न तावदहं ज्ञानाभाववान् अवस्थाविशेषवत्त्वादित्यनुमानम्। अहमर्थमात्रपक्षीकारे जाग्रति तस्मिन् ज्ञानसत्त्वेनांशतो बाधात् / सुषुप्तिकालीनाहमर्थस्य पक्षत्वे सुषुप्तेनिखिलज्ञानाभावरूपायाः पूर्वमसिद्धत्वात् / यत्किञ्चिज्ज्ञानाभावस्य साध्यत्वे न किंचिदवेदिषमित्यनुभवासंभवात्, सुषुप्तिकालीनज्ञानाभावासिद्धेश्च / निखिलज्ञानाभावस्य साध्यत्वे व्याप्तिग्रहाभावात् / अवस्थाविशेषत्वं च यदि सुषुप्तित्वं, तदा साध्याविशेषः। निखिलज्ञानाभावरूपत्वात् सुषुप्तेः / यदि जाग्रत्स्वप्नातिरिक्तकालत्वं, तन्न / तदा निखिलज्ञा प्तिकानुभवोऽपि तत्र मानमित्याह-एवमिति / सोऽपि ज्ञानाभावविषयतयाऽन्यथासिद्ध इति शङ्का निराकरोति-ज्ञानाभावस्येति / न च संस्कारानुपपत्तिः। सिद्धान्ते अज्ञानाकाराविद्यावृत्तेः सुषुप्त्यवस्थाया वा नाशात्तद्विशिष्टप्रकाशस्यापि नाशात्तदुपपत्तेरिति भावः / धादिज्ञानाभावाद्भावरूपाज्ञानानुभवोऽपि न स्यादित्युक्तं दूषयति-अस्मदभिमतेति / साक्षिणो नित्यतया धादिज्ञाननिरपेक्षत्वात्सविषयमेवाज्ञानं ततो भासते। न च तदाज्ञानविषये प्रमाणाभावान्न तस्य साक्षिगोचरतेति वाच्यम् / अज्ञाततया साक्षिभास्यत्वे प्रमाणापेक्षाभावादित्यर्थः / सुषुप्तौ साक्षिणा अज्ञानानुभवेऽहमित्याकारा प्रतीतिः स्यात् / तदाकारप्रतीतिश्च तदाऽनुपलब्धिविरुद्धत्याशक्याऽभिव्यक्ताहकारतादात्म्यापन्नसाक्षिण एव तथा प्रतीतेः / सुषुप्तौ च तदभावान्मैवमित्याह-न चैवमित्यादिना / ___ न किंचिदवेदिषमित्यस्य स्वापकालीनज्ञानाभावानुमितित्वान्न तदाऽज्ञानानुभव इत्युक्तमनुवदति-यत्त्विति / लिङ्गानिरूपणान्न तस्यानु मितित्वमित्याह तन्नेति / अवस्थाविशेषवत्त्वं लिङ्गमित्येतत्तावद् दूषयति-तत्र न तावदिति / तत्र किमहमर्थमात्रं पक्षः सुषुप्तिकालीनाहमर्थो वा / आद्यं दूषयति-अहमर्थेति / द्वितीयेऽनुमितेः पूर्व पक्षविशेषणाज्ञानात्तद्विशिष्टपक्ष एवासिद्ध इत्याह-सुषुप्तीति / साध्येऽपि किं कतिपयज्ञानाभाववत्त्वं विवक्षितं निखिल. ज्ञानाभाववत्त्वं वा ? / आद्ये दोषमाह-यत्किंचिदिति / जाग्रत्यपि तस्य सत्त्वात्सिद्धसाधनता च स्यादित्यभिप्रेत्याह -सुषुप्तीति / द्वितीयं दूषयति-निखिलेति / निखिलज्ञानानामेकत्रैकदा वाऽप्रसिद्धत्वेन व्यतिरेकव्याप्तेरपि दुर्घहत्वादिति भावः।