SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ 144 सटीकाद्वैतदीपिकायाम् यत्त्वहमर्थस्य भावरूपाज्ञानानाश्रयत्वेनेत्यादि, तदसत् / तस्याज्ञानाश्रयाभेदात् / श्वेतोधावतींतिवदहमज्ञ इति प्रतीत्युपपत्तेः / यत्तु जडविषयाज्ञानाभावात् घटं न जानामीत्यनुभवोऽभावविषय एवेति, तन्न / तदभिन्नचैतन्याज्ञानस्यैव तदज्ञानत्वात् / तस्मादज्ञो न जानामीत्येतत्प्रत्यक्षगोचरः / अनादिभावरूपा साऽविद्यानाभावरू पिणी // सौषुप्तिकाज्ञानपरामर्शस्य भावरूपाज्ञाने प्रमाणता एवं सौषुप्तिकाज्ञानपरामर्शोऽपि भावरूपाज्ञाने प्रमाणम् / ज्ञानाभावस्य सुषुप्तौ प्रतियोगिस्मरणाद्यभावेनानुभवितुमशक्यत्वात् परामर्शासम्भवात् / परोक्षनिश्चयात्तद्विषयाज्ञानिवृत्तौ तदनुभवोऽपि स्यादिति चोद्यमनुवदतिनन्विति / सुषुप्ताविव सतोऽप्यज्ञानानुभवस्य जानामीतिस्फुटतरज्ञानानुभवेनाभिभूतत्वा. त्सौरप्रभाभिभूतदीपादिप्रभाया इव न स्फुटव्यवहारयोग्यतेत्यभिप्रेत्याह-न तन्निर्णयस्येति / यदुक्तं शास्त्रश्रवणाद्धर्माज्ञानं निवृत्तमित्यनुभवादिति, तदन्यथयति-तदननुभवमात्रादिति / यथा सरप्रभायां सत्यां चन्द्रादिप्रभाया अननुभवमात्रेण तन्निवत्तित्वभ्रमः, एवं परोक्षज्ञाने सति तदज्ञानस्य स्पष्टमननुभवात्तन्निवृत्तित्वभ्रमः; निवर्तकाभावस्य बाधकस्योभयत्र तुल्यत्वादिति भावः / न जानामीत्यनुभवस्यभावरूपाज्ञानविषयत्वे सुखादावपि तत्सत्त्वात्तत्रापि भावरूपाज्ञानाशात इति न शङ्कनीयमित्याह-न चैवमिति / कि वर्तमाने स्वकीयसुखादौ तद तुभव उत परकीये तस्मिन्, किं वातीताहिरूपे ? / नाद्य इत्याह--स्वस्येति / द्वितीयतृतीययोरिष्टापत्तिरित्याह-परसुखे चेति / अतीतादिरूपस्यापि सुखस्याव्याकृतात्मना स्थितस्यावृतचैतन्यएवाध्यासात्तदज्ञानमपीष्टमिति चशब्दार्थः। __'अहमज्ञः' इत्यनुभवेऽहङ्काराश्रितत्वेनाज्ञ नमनुभूयते / भावरूपाज्ञानस्य च तदनुपपन्नमिति चोद्यमनुवदति-यत्त्विति / यथा श्वेतरूपस्य गतिमद्रव्यतादात्म्याद्यथाऽश्वगत्या गत्याश्रयत्वानुभव एवमज्ञानाश्रयचित्तादात्म्यादहङ्कारस्य तदनुभव इति दूषयतितदसदिति / चोद्यान्तरमनुवदति--यत्त्विति / अज्ञानविषयसद्रूपचैतन्यावच्छेदकतया जडस्थ तद्विषयत्वानुभवो न स्वत इति दूषयति-तन्नेति / 'अज्ञो न जानामि", इत्यनुभवयोरन्यथानुपपत्तेर्भावरूपाज्ञानमेव तद्विषय इत्युपसंहरति श्लोकेन -तस्मादिति / न किञ्चिदवेदिषमितिपरामर्शकल्प्यसौषु
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy