SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः 143 अज्ञाननिवृत्तेस्तुल्यत्वेऽपि स्वरूपविशेषादेव सुखविशेष इति चेत् / न, अतिप्रसङ्गात् / तस्मादविद्यानिवृत्तिरूपविशेषादेव प्रत्यक्ष सुखविशेषकरमिति तदेवाविद्यानिवर्तकम् / अविद्याविषयकवृत्तिश्च नाविद्याविरोधिनीति / प्रमाणानां स्वप्रमेयाव्युदासकरत्वात् / / ___ न चैवं परोक्षज्ञानात् व्यवहारोऽपि न स्यादिति वाच्यम् / व्यवहारमात्रे ज्ञानमात्रस्यैव हेतुत्वात् / संशयमिथ्याज्ञानादपि तदृष्टेः। नन्वेवं निर्णीतेऽपि धर्मादौ न जानामीत्यनुभवः स्यादिति चेत् / न, तन्नि. यस्यैव प्रतिबन्धकत्वात् / तदननुभवमात्रात्तनिवृत्त्यनुभवो भ्रान्तिः। न चैवं सुखं न जानामीत्यनुभवस्यापि भावरूपाज्ञानविषयत्वप्रसङ्ग इति वाच्यम् / स्वस्य विद्यमाने सुखे विशेषतोऽनुभवनियमेन न जानामीत्यनुभवाभावात् / परसुखे च तदिष्टमेव / वैषम्यमित्यत आह-परोक्षेति / प्रत्यक्षपरोक्षवृत्त्योनिवाविद्यासामानाधिकरण्यतदभावावेव वैषम्यमित्यर्थः। ___ इष्टविषयापरोक्षवृत्तेः प्रत्यक्षज्ञानत्वमेव सुखहेतुत्वप्रयोजकं, न त्वविद्यानिवर्तकत्वमिति शङ्कते-अज्ञानेति / प्रमेयमित्येवरूपेष्टज्ञानादपि सुखं स्यादिति दूषयति-नेति / न चेष्टतावच्छेदकप्रकारकज्ञानमेव सुखदेतुरिति वाच्यम् / प्रमेयवदिति ज्ञानेऽपीष्टतावच्छेदकतद्वैशिष्टययोर्भानात्। न च तत्र व्यावर्तकर्तया प्रकाशे न भातीति वाच्यम् रजतादिज्ञानेपि रजतत्वस्य तथाभानाभावात् / कारणकारणादेव कार्योपपादने ज्ञानसामग्रीत एव कार्यसंभवात् ज्ञानस्यापि कुत्रापि कारणतायोगाच्चेति भावः / ततश्चेष्टापरोक्षज्ञानस्याविद्यानिवर्त. कत्वप्रयुक्तमेव सुखानुकूलत्वं, परोक्षज्ञानस्य च तदभावान्नाविद्यानिवर्तकत्वमित्याहतस्मादिति / एवं तावत्परोक्षज्ञानस्याविद्यानिवर्तकत्वाभावादविद्याविषयवृत्तेरविद्यासमा. नविषयत्वेऽपि न तन्निवर्तकत्वमित्युक्तम् / इदानीं विमतं नाविद्यानिवर्तकं तद्विषयज्ञानत्वात्संमतवत् / न च सुखादिज्ञाने व्यभिचारः / तस्य पक्षसमत्वात् / तथा च निवर्त्याज्ञानाविषयकं तत्समानविषयमेव ज्ञानं तन्निवर्तकमित्यभिप्रेत्याहअविद्येति / ___ नतु परोक्षज्ञानेनाज्ञानानिवृत्तौ तदावृतविषये व्यवहारोऽपि न स्यादित्याशङ्कय ज्ञानमात्रस्यैव तत्कारणत्वात्ततस्तदुपपत्तिरित्याह न चैवमिति / अज्ञानानिवर्तकज्ञानादपि व्यवहारदर्शनान्नाज्ञाननिवृत्तिस्तद्धेतुरित्याह-संशयेति / अत एव परोक्षज्ञानाद् भ्रान्तिरपि न निवर्तेतेति निरस्तम् / दण्डभ्रान्त्याऽपि सर्पभ्रान्तिनिवृत्तिदर्शनादिति / भावः।
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy