SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 142 सटीकाद्वैतदीपिकायाम् न च घटस्य स्पष्टता अपरोक्षज्ञानविषयत्वमेव / ज्ञानस्यात्मनिष्ठत्वाद अतिरिक्तविषयतायाश्चानङ्गीकारात् / न चेन्द्रियसनिकृष्टत्वं तत् / अन्धकारस्थघटेऽपीन्द्रियसनिकृष्टे वाक्यात् ज्ञायमाने स्पष्टताया अदर्शनात्, तस्यातीन्द्रिय त्वाच्च / किं च परोक्षज्ञानस्याविद्यानिवर्तकत्वे चक्षुषा दृष्टघटादिव्यक्तौ त्वगिन्द्रियेणानुमाननिर्णीतेऽर्थे शब्देन जिज्ञासाभाववत् शब्दाद्यवगतेऽपि श्रीवेङ्कटा चलेशलीलाकमनीयविग्रहादौ प्रत्यक्षेण जिज्ञासाभावः स्यात् / अज्ञाननिवृत्तेस्तुल्यत्वात्। नन्विष्टविशेषप्रत्यक्षात सुखविशेषो भवतीति जिज्ञासाऽर्थवतीति चेत्, सत्यम् / अज्ञाननिवृत्तितौल्ये तदेव न सम्भवति / परोक्षापरोक्षवृत्तेविषयसम्बन्धासंबन्धाभ्यामज्ञाननिवृत्तितदभावाविति सिद्धान्ते न दोषः। ___किं चैवं प्रत्यक्षविषयवत्परोक्षविषयस्यापि फलव्याप्यतयाऽस्पष्टताया अभावात् तत्रापरोक्षव्यवहारादिरपि स्यादित्याह-अपि चेति / ननु स्पष्टता नाम ज्ञातता, सा च न परोक्षविषयेष्वित्याशङ्कय तस्या निरस्तत्वादभिव्यक्तं विषयावच्छिन्नचैतन्यमेव सेत्याह-विषयेति / / नन्वपरोक्षज्ञानविषयत्वमेव स्पष्टता, सा च न परोक्षविषय इति वैशेषिकादिमतमाशङ्क्याह-न चेति / किं ज्ञानविषयत्वं ज्ञानमेव उत तदतिरिक्तो विषयगतो धर्मः ? / आये तस्य विषयसम्बन्धिस्पष्टतात्मत्वमयुक्तमित्यभिप्रेत्याह-ज्ञानस्येति / द्वितीयं दूषयति - अतिरिक्तेति / द्रव्याद्यन्यतमत्वेनातिरिक्तविषयताया दुनिरूपत्वादित्यर्थः / ननु ज्ञायमानस्येन्द्रियसन्निकृष्टत्वमेव स्पष्टतेत्यत आह-न चेन्द्रियति / प्रत्यक्षज्ञानविषयस्येन्द्रियसनिकृष्टत्वं स्पष्टतेत्याशङ्कय स्पष्टताया अपरोक्षत्वादस्यातीन्द्रियत्वात् मैवमित्याहतस्येति / किं चैवं परोक्षतो निर्णीते दूरस्थे वस्तुनि “निष्पादितक्रिये कर्मणि" इति न्यायेन तदविद्यानिवृत्तये प्रत्यक्षापेक्षा न स्याच्चक्षुषा निर्णीते घटे स्पार्शनज्ञानापेक्षाऽदर्शनात् / अनुमाननिश्चिते शब्दापेक्षाऽदर्शनात् तद्वदित्याह-किं चेति / ___ नन्वविद्यानिवृत्तेरन्यतः सिद्धत्वेऽपि सुखविशेषार्थं तत्प्रत्यक्षज्ञानापेक्षेति शङ्कतेनन्विति / इष्टापरोक्षज्ञानस्य स्वविषयगतेष्टत्वावारकाविद्यानिवर्तकत्वादेव सुखविशेषहेतुता। परोक्षज्ञानस्यापि तदस्ति चेत्ततोऽपि सुखविशेषः स्यादित्याह-सत्यमिति / ननु सिद्धान्तेऽपि ज्ञानत्वाविशेषेऽपि किञ्चित् ज्ञानमविद्यानिवर्तकं किञ्चिन्नेति कथं
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy