________________ 141 द्वितीयः परिच्छेदः एवाशोकस्येतरव्यावृत्तिर्वाक्यादनिश्चिता संदिह्यत इति परास्तम् / देवदत्तप्रत्यक्षे तस्येतरव्यावृत्तिसंदेहाद्यभावात् / अत एव वृक्षविशेषेऽशोकत्वसंसर्गविपयोऽयं संदेहादिरिति परास्तम् / तस्यैव वाक्यीयप्रमाविषयत्वात् / क्वचित् वाक्यात अपरोक्षत्वम् क्वचिच्चोपदेशोऽप्यपरोक्षज्ञानजनकः / अशोकापरोक्षमपि क्वचित्सत्ताऽ नवधारणम्, उपदेशप्रामाण्यस्यान्यथासिद्धिशङ्काकलङ्कितत्वं च। अपि चाभिव्यक्तं विषयावच्छिन्नं चैतन्यं फलम् / अभिव्यक्तिश्चाविद्यानिवृत्तिरेव / / ततश्चापरोक्षार्थ इव परोक्षेऽप्यविद्यानिवृत्तिरस्ति चेतदपि स्पष्टमवभासेत / विषयावच्छिन्नस्फुरणस्यैव स्पष्टतारूपत्वात् / नन्वाप्तवाक्यादशोकत्वस्य वृक्षत्वेनैव सामानाधिकरण्यं निश्चितं न त्वेतदृक्षत्वेनेति चेत् / न, सामानाधिकरण्यं नामैकाधिकरणत्वम् / तच्चैकप्रत्यक्षतो निश्चितकाधिकरणत्वमेव / तथा च रूपवत्त्वेन चक्षुषा दृष्टे घटे त्वचा घटत्वसामानाधिकरण्येन स्पविगतौ यथा तयो रूपस्पर्शयोर्न सामानाधिकरण्यसंदेहः, एवमत्रापि स्वरूपाज्ञानाभावेऽ शोकत्वैतवृक्षत्वयोरपि स संदेहो न स्यादिति भावः। ननु परोक्षज्ञानमात्रस्याविद्याऽनिवर्तकत्वे “अयमशोकः' इत्युपदेशजन्यज्ञानादपि तदनिवृत्तिः स्यादित्याशङ्कय तस्य "दशमस्त्वमसि' इत्यादिवाक्यवदिन्द्रियनिकृष्टतया प्रमात्रव्यवहितविषयत्वेनापरोक्षज्ञानादिजनकत्वात्तत एव तदज्ञानादिनिवृत्त्युपपत्तिरित्यभिप्रेत्याह-क्वचिच्चेति / नन्वेवमिन्द्रिप्रसन्निकृष्टेऽशोके 'अस्मिन्वनेऽशोकोऽस्ति' इति वाक्या रप्यपरोक्षज्ञानोत्पत्त्या तदज्ञानादिनिवृत्तिः.स्यादित्यत आह-अशोकेति / ननूक्तवाक्यजन्यपरोक्षज्ञानवत्तज्जन्यापरोक्षज्ञानमपि तत्प्रयोक्तुराप्तत्वान्यथानुपपत्तिरूपतर्कबलात्सत्तानिश्चयरूपंकिन्न स्यादित्यत आह-उपदेशेति / इन्द्रियसन्निकृष्टस्य कस्यचिदशोकत्वेऽपि तत्प्रयोक्तुराप्तत्वसम्भावनया तदुपदेशस्यगन्यथाऽपि प्रामाण्योपपत्तिशङ्कास्कन्दितत्वात्सन्निकष्टविषये तज्जन्यज्ञानमपरोक्षमपि सत्तानवधारशमेव दूरस्थस्य तु वस्तुतस्तद्विषयपरोक्षज्ञानोत्पत्तिसमसमये वणितशङ्कानवतारात् तत्र सत्तानिश्चयरूपमेवेति परोझज्ञानस्य व्यभिचारान्नाविद्यानिवर्तकतेति भावः। किं च समानविषययोरपि ज्ञानाज्ञानयोळधिकरणत्वे निवर्त्यनिवर्तकभावानुपपत्तेस्तन्निवर्त्तकस्य तत्सामानाधिकरण्यमावश्यकम् / परोक्षवृत्तेश्च निर्गमनाभावेन स्वविषयावच्छिन्नचैतन्यावरकाज्ञानेन सामानाधिकरण्यानुपपत्तेस्तस्यास्तन्निवर्तकत्वमनुपपनम् / परोक्षज्ञानस्याप्यविद्यानिवर्तकत्वे शाब्दापरोक्षवादे यत्नान्तरेण ब्रह्मसाक्षात्कारा. भ्युपगमो व्यर्थः स्यात् /