________________ 140 सटीकाद्वैतदीपिकायाम् परोक्षज्ञानस्याज्ञान निर्वर्तककत्वाभावः यच्च परोक्षज्ञानमविद्यानिवर्तकमिति सविषयकाविद्याविषयवृत्त्याऽविद्याs पि निवर्तेतेति, तदसत् / आप्तवाक्यादशोकत्वनिश्चयानन्तरमपि तत्राज्ञानसंशयदर्शनात / न चात्राशोकस्वरूपे नाज्ञानं, न वा संशयः किंतु तस्य देशविशेषस्थत्व इति वाच्यम / देशविशेषतत्संबन्धयोरपि प्रत्यक्षेण निश्चितत्वात् / अशोकत्वादिस्वरूपेऽज्ञानाभावे तस्य देशविशेषस्थत्वसंशयाद्यसम्भवात् / न हि माहिष्मत्यां देवदत्ते प्रत्यक्षेण निर्णीते पाटलिपुत्रे तस्मिन् दृष्टे 'देवदत्तोऽत्रास्ति न वा' इति संशयो भवति / अविद्यानिवृत्त्यनिवृत्तिरूपविशेषं विना देवदत्तप्रत्यक्षाशोकत्वपरोक्षनिश्चययोः सत्तानिश्चयरूपत्वे विशेषाभावात् / अत सत्यप्यनुवर्तमानत्वेन तत्कारणतया तत्तदज्ञानस्याप्यावश्यकत्वान्न परो ज्ञानात्तन्निवृत्तिरित्यभिप्रेत्याह-तदसदिति / किं च अशोकत्वं नाम काचिद्वक्षत्वव्याप्या जातिः तद्वानशोकपदार्थ इति व्युत्पत्तिमतो “अस्मिन्वनेऽशोकोऽस्ति' इत्याप्नोक्तितस्तद्वनेऽशोकत्वविशिष्टवृक्षसंसर्गविषयं सत्तानिश्चयरूपं ज्ञानं जन्यते। वनाशोकसंमर्गे संश पाद्यभावात् / ततो वनगतस्य "अशोकं न जानामि. अस्मिन्नशोकत्वमस्ति न वा" इत्यनुभूयमानावज्ञानसंशयौ परोक्षज्ञानस्याविद्यानिवर्तकत्वेऽनुपपन्नौ भवेताम् / ततः परोक्षज्ञानं सत्तानिश्चयरूपमप्यविद्यानिवृत्त्ययोग्यमित्यभिप्रेत्याह-आप्तवाक्यादिति / ननु तद्वाक्यादशोकत्वविशिष्टवृक्षस्य वनसंसर्गनिश्चयेऽपि तत्र तस्य देशविशेषसंसर्गानिश्चयात्तस्य तद्विषयावेवाज्ञानसंशयावित्याशक्य वस्तुतोऽशोकत्वाश्रयस्यैव परोक्षे दृश्यमानत्वान्न वस्तुनोऽशोकत्वात् तत्राज्ञानादीति दूषयति-न चात्रेति / ननु वृक्षत्वाकारेणैव तस्य देशविशेषस्थत्वनिश्चयो न त्वशोकत्वाकारेणेत्याशक्याशोकत्वतद्वैशिष्टयाज्ञाननिवृत्ती तेन रूपेणापि निश्चयः स्यादित्याह-अशोकत्वादोति / यत्स्वरूपावरकाज्ञानं तस्य निवृत्तं तत्संस्कारवतस्तस्य पश्चाद् देशविशेषे तदाकारेणैव तन्निश्चयो भवतीत्यत्रोदाहरणमाह-न हीति / ननु माहिष्मत्यां देवदत्तस्वरूपज्ञानं सत्तानिश्चयरूपं वाक्योत्थमशोकज्ञानं न तथेति वैषम्यमाशङ्कयाह-अविद्ये ति / नन्वाप्तवाक्याद् वनस्थवृक्षेऽशोकत्वनिश्चयेऽपि तस्येतरभेदोऽज्ञातः संह्यत इत्याशङ्कय तस्यापि प्रत्यक्षेण निश्चितत्वान्मैवमित्याहअत एवेति / किं च देवदत्तप्राथमिकप्रत्यक्षेण तत्स्वरूपावरकाज्ञाननिवृत्तौ यथा तस्येतरभेदसंशयाभावः, एवं शाब्दज्ञानादशोकाज्ञाननिवृतौ तस्यापि तत्संशयो न स्यादित्याहदेवदत्त इति / ननु वाक्याद वनस्थवृक्षमात्रेऽशोकत्वनिश्चयेऽपि वृक्षविशेषे तत्संसर्गोऽज्ञातः संदिह्यत इत्यत आह-अत एवेति / अतः शाब्दार्थमेवाह- तस्यैवेति / वृक्षमात्रेऽशोकत्वं बोधयतो वाक्यस्याप्रामाण्यापाताद् वृक्षविशेष एव तन्निश्चयस्ततो जायत इत्यर्थः /