SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः 139 अत एव विशेषप्रकारकं ज्ञानं निषिध्यत इत्यादिकं त्वसङ्गतम् / चन्द्रं न जानामीत्यनुभवकालेऽपि विशेष प्रकारकज्ञानादेः सत्त्वाच्च / अत एव साक्षात्प्रमाणज्ञानं मयि नास्तीत्यपि निरस्तम् / स्वातन्त्र्यस्य वा सत्तानिश्चयरूपत्वस्य वा प्रत्यक्षत्वस्य वा साक्षात्त्वस्य विवक्षायां चन्द्रं न जानामीत्यादावज्ञानानुभवायोगात् तत्रोक्तस्य सर्वस्य सत्त्वात् / शेषे चोक्तमनुसंधेयम् / प्रमाणज्ञानस्य साक्षात्त्वं विकल्पयन्सर्वकल्पेष्वनन्तरोक्तदोषमप्याह-स्वातन्त्र्यस्येति / किं च स्वातन्त्र्यमपि किमन्यानुपनीतविषयत्वं ज्ञानाविशेषणविषयत्वं वा, विशेष्यतयैव तद्विषयकत्वं वा ? / नाद्यः / सुरभिचन्दनमिति निश्चये सत्यपि 'चन्दने सौरभ्यं न जानामि' इति धीप्रसङ्गात् / किं चैवं सति त्वदुक्तमथं न जानामीत्यनुभवस्यार्थांशे उपनीतविषयत्वं वाच्यम् / तदुपनायकस्याप्युपनीतविषयत्वेऽनवस्थापातात्तदनु. पनीतविषयत्वमज्ञातार्थे तस्य बाधाभावात् प्रमाणं चेति साक्षात्प्रमाणाज्ञाने तस्मिन् सति कथं तदभावः / न द्वितीयः। स्वप्रकाशज्ञानवादे सर्वज्ञानानामिदं ज्ञातं जानामीत्येवमाकारेणोत्पत्तेः। तथैव तत्रार्थस्य ज्ञानत्वस्य च ज्ञानविशेषणतयैव भानात् सत्यपि विशेषज्ञाने तयोरज्ञानप्रसङ्गात् / वेद्यज्ञानवादेऽप्यनुव्यवसाये अर्थस्य ज्ञानत्वस्य च ज्ञानविशेषणतयैव भानात् तदनन्तरमपि तत्राज्ञानं स्यात् / किं चात्रापि त्वदुक्तमर्थं न जानामीत्यनुभवे ज्ञानविशेषणतयैवार्थों भातीति वाच्यम्। ततश्चैतत्कारणतया विशेषणभूताज्ञातार्थविषयज्ञानमावश्यकम् / तस्यापि ज्ञानविशेषणतयाऽर्थविषयत्वेऽनवस्थापातात्स्वातन्त्र्येण तत्तद्विषयमिति तदभावरूपाज्ञा संभवः। नापि तृतीयः / दण्ड्यमितिज्ञानानन्तरं दण्डं न जानामीत्यनुभवप्रसङ्गात् / अत्राप्यनन्तरोक्तदोषापाताच्च / सत्तानिश्चयत्वं च तव जातिरूपमुपाधिरूपं वा दुनिरूपम् / प्रत्यक्षत्वस्य साक्षात्त्वे चाज्ञानानुभवस्यापि अज्ञातेऽर्थेऽलौकिकप्रत्यक्षत्वात्तदभावासंभवः / लौकिकप्रत्यक्षत्वविवक्षायां नित्याती न्द्रयार्थेषु तदसंभवात्तदभावरूपाज्ञानानुपपत्तिः। अन्यविषयतदत्यन्ताभावस्य च लिङ्गादितो निश्चितेष्वपि तेषु संभवात्तदाऽपि न जानामीत्यनुभवापत्तिरित्यादि प्रातिस्विकदूषणमपि द्रष्टव्यम् // यदुक्तं साक्षात्प्रमाणविषयत्वस्यैव सत्त्वप्रयोजकत्वादिति, तदपि साक्षात्त्वनिरूपणेनैव निरस्तमित्याह--शेषे चेति / एवं परमते दोषमुक्त्वा स्वमते तदुक्तदोषं परिहर्तुमनुवदति –यच्चेति / अपरोक्षाध्यासस्यापरोक्षज्ञानेनैव निवर्त्यत्वादविद्याध्यासस्याप्यपरोक्षत्वाद् दिङ्नोहशङ्खपीतिमचन्द्रप्रादेशिकत्वनभोनीलिमादिभ्रमाणां परोक्षात्मकतत्त्वनिश्चये
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy