SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ 162 सटीकाद्वैतदीपिकायाम् नन्वसत्यस्याश्रयेऽभावप्रमा संभवतीति चेत् न। ज्ञाननिवर्त्यस्यासत्यत्वनियमाभावे शुक्तिरजतस्यापि तदसिद्धेः। किञ्च कार्याभावप्रमा नाविद्यानिवतिका / रजताभावप्रमायां सत्यामपि शुक्तित्वाद्यदर्शनात् / अन्यथा रजतमिदं नेति प्रत्यक्षावगते किमिदमिति जिज्ञासाविरहप्रसङ्गात्, अज्ञानाभावस्य च पूर्वमप्रतीतेः। किन्तु स्वाश्रयविशेष शुक्तित्वाद्यवच्छिन्नचैतन्यज्ञानमेव / सत्यस्याप्याश्रयज्ञानानिवृत्तौ तन्त्वादिज्ञानादपि पटादिनिवृत्तिप्रसङ्गस्तदवस्थ एव // ननु सुहजज्ञानं सत्यस्य दुःखस्य कपिलादिदर्शनं च सत्यस्य पापस्य निवतकमित्यन्वयव्यतिरेकाभ्यां स्मृतेश्चावगतमिति चेत् न। उत्पन्नानुत्पन्नदुःखयोः तादृशज्ञाननिवर्त्यत्वापातेन तत्प्रयुक्तासत्यत्वस्याप्यापातात् / ततश्चासत्यत्वाभावादिति हेतोरसिद्धयापात इत्याह -न चेत्यादिना / अभावप्रमैव निवतिकेति पक्षे नातिप्रसङ्ग इत्याह-पटेति / ज्ञाननिवत्त्यस्यासत्यत्वनियमाभावें शुक्तिरजतस्यापि तदसिद्धयापाताच्छुक्तौ तदभावप्रमाया अप्यभावापातात् ततस्तन्निवृत्त्यसंभव इति दूषयति --न रजतेति / ननु रजतस्य दोषजन्यत्वादिप्रयुक्तमेव मिथ्यात्वं, ततो नोक्तदोष इत्यभिप्रत्य शङ्कते-नन्विति / न तावदोषजन्यत्वं मिथ्यात्वप्रयोजकम् / सत्यत्वेऽपि घटादेर्दण्डादिजन्यत्ववत्तदुपपत्तेः / नाप्यर्थक्रियाऽभावप्रयुक्तं तत् / कोमलदण्डादौ तत्सत्त्वेऽयसत्यत्वाभावात्, ज्ञानाद्यर्थक्रियायाः शुक्तिरजतादावपि सत्त्वाच्च / नापि प्रतिपुरुषमसाधारणत्वं तत्प्रयोजकम्। द्वित्वसुखादौ तत्सत्त्वेऽप्यसत्यत्वाभावात् / नापि दाहच्छेदादिस्वोचितकारणाभावात् तन्मिथ्यात्वं तृणजन्यवन्ही मण्यादेरिव शुक्तिजन्यरजते तस्याकारणत्वात् / तस्मात् ज्ञाननिवर्त्यत्वमसत्यस्यैवेति तदेव तत्प्रयोजकम् / ततश्च ज्ञाननिवर्त्याज्ञानस्याप्यावश्यकमसत्यत्वमित्यभिप्रत्याह-न ज्ञाननिवर्त्यस्येति / किं चाज्ञानमपि स्वाभावप्रमयैव निवर्त्यते उत स्वकार्याभावप्रमया?। न द्वितीयः। शुक्तौ रजताभावज्ञानेऽपि शुक्तयज्ञानस्य क्वचित्तदवस्थत्वादित्याह - किं चेति / आद्ये दोषमाह - अज्ञानेति / अज्ञानस्य यावत्सत्त्वमुपलभ्यमानत्वेन तन्निवृत्तेः पूर्वं तदभावप्रतीत्ययोगात्, तस्य सत्यत्वे तत्काले तदाश्रये तदभावप्रतीतेः प्रमात्वायोगाच्चेत्यर्थः / उक्तरीत्याऽभावज्ञानस्याज्ञानादि निवर्तकत्वायोगादधिष्ठानज्ञानमेव तन्निवर्तकमिति परिशेषयति-किं त्विति / तहि तदेव सत्यस्यापि निवर्तकमस्त्वित्याशङ्कयाह-सत्यस्यापीति / सिद्धान्ते नु तन्त्वादिज्ञानस्य पटाद्युपादानभूताज्ञानाविरोधित्वान्न तन्निवर्तकनेति भावः / ननु ज्ञाननिवर्त्यत्वं निवर्त्यस्यासत्वं नापेक्षते सत्यस्यापि तदर्शनादिति शङ्कतेनन्विति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy