SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 136 सटीकाद्वैतदीपिकायाम् भावविलोपप्रसङ्गात् / अस्मन्मते चाधिष्ठानातिरिक्तज्ञानात्यन्ताभावस्याऽऽत्मनि वृत्त्यसम्भवात् / अधिष्ठानस्य तदभावत्वं ह्यज्ञानाधीनमेव / एतेन देवदत्तस्य घटज्ञाने पुरुषान्तरप्रसिद्धं विशेषविषयत्वं तत्प्रकारकत्वं वा निषिद्ध्यत इति प्रत्युक्तम् / विशेषविषयत्वाभावादेरज्ञानत्वे ज्ञानमज्ञानीत्यनुभवः, स्यात् / मय्यज्ञानमित्याद्यनुभवोऽपि न स्यात् / विशेषाविषयज्ञानमात्मन्यस्तीति चेत् तहि ज्ञानमज्ञानं स्यात् / आत्मधर्माज्ञानानुभवव्याख्याने च पदार्थमात्रविप्लवा स्यात् / नोभयथाऽपीति क्रमेण दूषयति-तदभ्युपगम इति / अज्ञानाधीनमेवेति / वृत्तिज्ञानस्यानिर्वचनीयत्वे तदधिष्ठानं तदभावः स्यात् / तदनिर्वचनीयत्वं च तादृशाज्ञानकार्यत्वाधीनमित्यर्थः। यदप्युक्तं पुरुषान्तरीकरतलामलकादिज्ञाने प्रसिद्वं स्वविषयेतरव्यावृत्यधिकरणतावच्छेदकधर्मविषयत्वादिकमिह निषिध्यत इति, तद् दूषयति-एतेनेति / किमत्र स्वशब्दः पुरुषान्तरोयज्ञानपरः समभिव्याहृतपरो वा ? / नाद्यः / विशेषज्ञानवति जीवेs ज्ञानप्रसङ्गात् / न द्वितीयः। शुक्तयादाविदं प्रमेयवदिति ज्ञानस्यापि तादृशधर्मप्रकारकत्वात् शुक्ति न जानामीत्यनुपपत्तेः / न च त इवच्छेदकत्वेन तत्प्रकारकत्वाभावो विवक्षित इति वाच्यम् / करतलामलकज्ञानेऽपि तदभावेन तत्रापि न जानामीत्यनुभवापातात्, इह शुक्तित्वमिति ज्ञानस्यापि तत्प्रकारत्वाभावाञ्च न च स्वविषयशब्दः स्वविशेष्यपर इति वाच्यम् / शुक्ताविदं रजतमिति ज्ञानानन्तरं तन्न जानामीत्यनुभवापातात्, उक्तनिषेधस्य ज्ञानसामान्यविरोधित्वाभावाच्चेत्यर्थः / किञ्च किं ज्ञाने विशेषविषयत्वाभाव एवाज्ञानं तद्विशिष्टज्ञानं वा ? आद्ये दोषमाह-विशेषेति / द्वितीयं शङ्कते-विशेषेति / तथा च मय्यज्ञानमित्यनुभवोपपत्तिरिति भावः / तद् दूषयति-तीति / न च ज्ञानस्याज्ञानत्वं युक्तं घटत्वाघटत्ववत् ज्ञानत्वाज्ञानत्वयोरेकत्र विरोवादित्यर्थः / अहमज्ञ इत्यनुभवस्य मद्ज्ञाने विशेषविषयत्वं नेत्येवं व्याख्याने स्वस्वमतानुरोधेन सर्वानुभवव्याख्यानसम्भवात् पदार्थव्यवस्था न स्यादित्याह--आत्मेति / ज्ञानविरोधितया प्रतीयमानमज्ञानं च न प्रागभावादिरूपमित्युपसंहरति-- तस्मादिति / प्रागभाववत्तदनुभवस्याप्यसम्भवान्नाहमज्ञ इत्याद्यनुभवस्तद्विषय इत्याह-- प्रागभावस्येति / तत्र हेतुमाह-जनिष्यमाणेति / प्रतियोगितावच्छेदकविशिष्टप्रतियोगि
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy