________________ द्वितीयः परिच्छेदः 135 तस्यापि सर्वज्ञतादशायां तद्विशेषज्ञानमस्तीति चेत् न। जीवेषु तन्नियमाभावात, अनपेक्षितचिरातीतविषयाणां त्वदभिमतमुक्तिसाधनयोगजधर्मजज्ञानविषयत्वे प्रमाणाभावाच्च। न च तत्र पुरुषान्तरे प्रसिद्धविशेषज्ञानात्यन्ताभाव एवाज्ञानमिति वाच्यम् / यस्योत्तरकाले तज्ज्ञानं तस्मिन् तव मते तज्ज्ञानसामान्याभावासम्भवात्। पुरुषान्तरीयज्ञानात्यन्ताभावश्चेदज्ञानं तहि त्वदभिमतेश्वरे विशेषज्ञानवति जीवे चाहमज्ञ इत्यनुभवप्रसङ्गः। किं चैवं घटो न जानातीति प्रयोगः साधुः स्यात्, मुक्तानां चाज्ञानं स्यात् / सामयिकात्यन्ताभावोऽज्ञानमिति पक्षनिरासः ___एतेन सामयिकात्यन्ताभावोऽज्ञानमिति निरस्तम् / तदभ्युपगमे तव प्राग "तरति शोकमात्मवित्" "तमेव विदित्वाऽतिमृत्युमेति' इत्यादिनाऽऽत्मज्ञानादेव मुक्तिश्रवणात्सर्वज्ञत्वं नावश्यकमित्याह-जीवेष्विति / परमतेऽपि भाविसुखदुःखतत्साधनस्फुरणायैव योगजधर्मजज्ञानाभ्युपगमाच्चिरातीतविशेषज्ञानं नावश्यकमित्याहअनपेक्षितेति / उक्तस्थले विशेषज्ञानप्रागभावाभावेऽपि तदत्यन्ताभावसत्त्वात् स एव न जानामीत्यनुभवविषय इति शङ्कां निषेधति-न चेति / किं यत्र विशेषज्ञानप्रागभावासम्भवः तत्रैव तदत्यन्ताभावोज्ञानम्, उत सर्वत्र ? नाद्यः / तद्विशेषाज्ञाने तद्विषयज्ञानत्वावच्छिन्नप्रतियोगिनोऽप्यज्ञानात् तदभावानुभवायोगान्न जानामीत्येकाकारप्रतीतेः क्वचित्प्रागभावः .क्वचिदत्यन्ताभाव इति विषयवैलक्षण्यायोगाच्चेत्यभिप्रेत्य द्वितीये भाविविशेषज्ञानवति तदत्यन्ताभावोऽसम्भवीत्याह-यस्येति / सिद्धान्ते कार्यात्पूर्वं तदाश्रये तत्प्रतियोगिकसामयिकात्यन्ताभावाङ्गीकारात्तव मत इत्युक्तम् / / ननु तत्र पुरुषान्तरीयविशेषज्ञानात्यन्ताभाव एवाज्ञानमित्याशङ्ख्यातिप्रसङ्गमाह-पुरुषान्तरीयेति / न जानामीत्यनुभवस्य ज्ञानात्यन्ताभावश्चेद्विषयः तर्हि तत्प्रयोगस्यापि स एव विषय इति घटादौ उत्तमपुरुषप्रयोगाभावेऽपि प्रथमपुरुषान्तस्तत्प्रयोगः स्यादित्याह-किं चेति / परकीयज्ञानात्यन्ताभावस्य मुक्तेष्वपि सम्भवात् तेषामप्यज्ञत्वापात इत्याह-मुक्तानामिति / ननु ज्ञानसमवायिनि तत्प्रतियोगिकसामयिकात्यन्ताभाव एवाज्ञानम् / स च नेश्वरधटादावित्यत आह-एतेनेति / तस्य मुक्तेष्वभावात् सर्वदा विशेषज्ञानरहिते चाभावादित्यर्थः / ज्ञानसामयिकात्यन्ताभाव एवाज्ञानमिति किं त्वन्मतानुसारेणोच्यते उतास्मन्मतानुसारेण ? |