SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 134 सटीकाद्वैतदीपिकायाम् अज्ञानस्याभावत्वरवीकारः अभावत्वमपि भावरूपाज्ञानस्यास्त्येव / चैतन्ये कल्पितस्य तदभावात्मत्वात् / कथं तहि मिनिर्णयः ज्ञानसामान्यविरोधित्वनिर्वाहाय भावर्मिकल्पनायां लाववाच्च भाव एवाज्ञानम् / एतेन ज्ञानं नास्तीत्यादिबुद्धिाख्याता। कथं तहि ज्ञानाभावसिद्धिरिति चेत् / न, जन्यज्ञानं नास्तीत्यादिबुद्धचैव तसिद्धः / एतेन विशेषज्ञानाभाव एव न जानामीत्यनुभवविषय इति प्रत्युक्तम् / किं च यस्मिन्विशेषे यस्येतः परं न ज्ञानं, तस्मिन्न जानामीत्यनुभवो न स्यात् प्रतियोग्यभावेन प्रागभावासम्भवात् / ननु न जानामीत्यनुभवस्याभावविषयत्वे तद्विषयोऽभावो न पराभिमतः प्रागभावः, किं तु सिद्धान्त्यभिमत एवेत्यत्र किं नियामकमिति पृच्छति-कथमिति / पराभिमताभावत्य ज्ञानसामान्यप्रतियोगिकत्वाोगाद्भावविरहात्मकाभावकल्पनातो भावस्यैव तद्विषयत्वे लाघवात्प्रागभावस्याभावाच्च भावरूपाज्ञानमेवाभावतया प्रथते इत्याह ज्ञानेति / ज्ञानं नास्तीत्यस्याभावमात्रविषयत्वमसम्मतमित्याह-एतेनेति / भावरूपाज्ञानमेवोक्तविधया तदनुभवविषयः, न भावविरहैकस्वभावोऽभाव इत्यर्थः। ज्ञानाभावानुभवानां भावरूपाज्ञानविषयत्वे तव तदतिरिक्तवृत्तिज्ञानाभावो न सिध्येदिति शङ्कते-कथं तीति / यत्र वृत्तिज्ञानं विशिष्याभावप्रतियोगितयाऽनुभूयते ततस्तत्सिद्धिरित्याह-न जन्येति / यदुक्तं सामान्यतो ज्ञानेऽपि विशेषज्ञानाभाव एव न जानामीत्यनुभवविषय इति, तत्राह-एतेनेति / तस्य ज्ञानसामान्यविरोधित्वासम्भवेनेत्यर्थः / विशेषज्ञानाभावो नाज्ञानमित्यत्र हेत्वन्तरमाह-किं चेति / यस्य दाक्षिणात्यस्याऽऽमरणं क्रमेलकादिविशेषज्ञानं न भविष्यति तस्य तन्न जानामीत्यनुभवो न स्यात्तस्मिन् तद्विशेषज्ञानाभावे तत्प्रागभावाभावात् / तथा च तत्र भावरूपाज्ञानमेव तदनुभवविषय इति सर्वत्रापि स एव तद्विषय इत्यर्थः। अस्मिन् जन्मनि तद्विशेषज्ञानाभावेऽपि चरमदेहे योगमहिम्ना तज्ज्ञानसम्भवाद् इदानीं तत्प्रागभावरूपाज्ञानमस्तीति शकते- तस्यापीति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy