________________ द्वितीयः परिच्छेदः 133 तती ज्ञानसामान्यविरोधित्वं ज्ञाननिवर्त्यत्वेन वक्तव्यमिति न तदनिवयंप्रागभावादिरज्ञानं / ज्ञानेनाज्ञानं निवृत्तमित्यनुभवात् / "ज्ञानेन तु तदज्ञानम्" इति स्मृतेश्च ज्ञाननिवर्त्यमेवाज्ञानमभ्युपेतव्य मिति तदेवानुभवदिषयः / नन्वज्ञो न जानामीति तस्याभावत्वमनुभूयत इति चेत्, न तावदहमज्ञ इत्यनुभवस्याभावविषयता। मयि घटाज्ञानमिति यदज्ञानमात्मविशेष्यमनुभूपते तदेवाहमज्ञ इति विशेषणतयाऽनुभूयते। तस्मिश्च ज्ञाने यथाऽऽत्मन्यधर्मोऽसुखमनिच्छेतिज्ञाने पापदुःखद्वेषादिधर्मादिविरोधित्वेनानुभूयते तद्वत् ज्ञानविरोधित्वेनैव किञ्चिदनुभूयते न त्वभावतया। अन्यथा वायौ पृथिव्या रूपमिति बुद्धेरिवाऽऽत्मनि घटाज्ञानमिति बुद्धिप्रयोगयोरभावप्रसङ्गात् / अत एव न जानामीत्यनुभवोऽपि ज्ञानविरोधित्वमात्रविषयः / तस्याज्ञानमित्यनुभवेनेकविषयत्वात् / किं चाज्ञानस्य ज्ञाननिवर्त्यतयाऽनुभवादिसिद्धत्वात्तेन रूपेणैव तद्विरुद्धत्वं तदनुभवविषयः / तच्च न पराभिमताज्ञाने सम्भवतीत्याह-ज्ञानेनेति / यदुक्तं मयि ज्ञानं नास्तीति विशेष्यतया प्रतीयमानज्ञानाभाव एवाहमज्ञ इत्याद्यनुभवे विशेषणतया ज्ञायत इति तदनुवदति-नन्विति / मयि ज्ञानं नास्तीत्यस्यैवाभावमात्रविषयत्वमसंमत मित्यभिप्रेत्य तदुक्तन्यायेनाहमज्ञ इत्यस्य तावद्भावविषयत्वमावश्यकमित्याह न तावदिति / ननु घटाज्ञानमित्यस्यापि घटज्ञानाभाव एव विषय इत्यत आह तस्मिंश्चेति / यथा मय्यधर्म इति धर्मविरोधितया शास्त्रेणोपनीतं भावरूपं पापं प्रतीयते, यथा वा असुखमनिच्छा असत्यमित्यादौ दुःखद्वेषानृतवचनादीनि सुखादिविरोधीनि प्रतीयन्ते, एवं घटाज्ञानमित्यत्रापि ज्ञानविरोधिभावरूपमेव किञ्चित्प्रतीयत इत्यर्थः / तदुक्तम् नामधादर्थयोगी तु नैव नञ् प्रतिषेधकः / इति / अभावमात्रेनान्वितप्रतियोगिबोधकनामपदोल्लेखिबुद्धिप्रयोगयोरभावादज्ञानस्याप्पभावत्वे तौ न स्यातामित्याह-अन्यथेति / ममाज्ञानमिति विशेष्यतयाऽनुभूयमानाज्ञानस्यैवाहं न जानागीत्यत्रापि विशेषणतया भानादयमप्यनुभवो ज्ञानविरोधिभावविषय इत्याह-अत एवेति / / ___ न जानामीत्यनुभवस्याभावविषयत्वेऽपि भावरूपाज्ञानमेव ज्ञानाभावात्मनाऽनुभूयते। आरोपितज्ञानाभावस्याधिष्ठानचिन्मात्रतया तदभावस्याप्यारोपिताज्ञानात्मकत्वादित्यभिप्रेत्याह-अभावत्वमिति /