________________ सटीकाद्वैतदीपिकायाम् कि चाहमज्ञो न जानामीति च ज्ञानसामान्यविरोधिताऽनुभूयते / सा च यदि ज्ञानामावतया, तदा ज्ञानत्वावच्छिन्नप्रतियोगिकः प्रत्येकप्रतियोगिको निखिलज्ञानाभावो वा वाच्यः। तदुभयं च प्रागभावादेरज्ञानत्वे न संभवति, धादिज्ञाने तु नतराम् / सिद्धान्ते वस्तुतोऽपरोक्षवृत्त्यनुगतप्रकाश एव ज्ञानत्वसामान्यात्मना तद्विरोधीति तदुपपन्नम् / यथा परमते वस्तुतः शरीरावच्छिन्नात्मन आत्मत्वेन सुखादिसमवायिकारणत्वं तथा वस्तुतो विशेषानुगतस्यापि सामान्येन तद्विरोधित्वोपपत्तेः / न चैवं कल्पने प्रमाणाभावः / अज्ञानमित्याद्यनुभवस्यापरोक्षवृत्तेरेवाज्ञाननिवृत्त्यनुभवस्य च मानत्वात् / न तावदस्य निखिलज्ञात्रन्यत्वं विषयः। स्वस्यापि ज्ञातृत्वेन तदयोगात् / नापि निखिलज्ञानान्यत्वम् / विशेषज्ञाने सत्यपि तथानुभवप्रसङ्गात् / तस्मात्स्वस्य ज्ञानसामान्यविरोध्याश्रयत्वमेव तदनुभवविषय इत्यर्थः / स्वाश्रिते प्रागभाव एव ज्ञानसामान्यविरोधितारित्वत्याशक्य तस्य किं ज्ञानसामान्याभावतया तद्विरोधित्वम् उत तन्निवर्त्यतया ? आद्य आह-सा चेति / सामान्याभावो विशेषाभावातिरिक्त इति मतेनाह-ज्ञानत्वावच्छिन्नेति / यावद्विशेषाभावः स इति मतेनाह-प्रत्ये केति / ततः किमित्यत आह-तदुभयमिति / सामान्यप्रागभावस्य प्रतियोग्यनिरूपणात्परैरनभ्युपगमाच्चासम्भवः। प्रतियोगिसमानाधिकरणानां यावज्ज्ञानप्रागभावानामपि सर्वज्ञानानधिकरणे स्वस्मिन्नसम्भव इत्यर्थः / प्रागभावाद्यनुभवसमये तद्धतुधादिज्ञानस्यावश्यकत्वादपि नोक्ताभावसम्भव इत्याह- धादीति / ननु सिद्धान्तेऽपि न ज्ञानसामान्यविरोधिता। सत्यपि परोक्षज्ञाने तद्विषयाज्ञाननिवृत्त्यभावात् / ततो ज्ञानस्यावश्यकत्वादपि ज्ञानत्ववद्विरोधितामात्रं तदनुभवविषयः। तच्च विशेषाभावस्याप्यस्तीत्याशक्याह--सिद्धान्त इति / न तावत् ज्ञानत्ववद्विरोधितामात्रं तद्विषयः नार्थस्य विरोधस्य तदन्वितज्ञानपदार्थज्ञानसामान्यप्रतियोगिकतयाऽनुभवात् / इतरथा सत्यपि विशेषज्ञाने ज्ञानत्ववद्विशेषज्ञानान्तराभावस् त्त्वात् 'न जानामि' इत्यनुभवप्रसङ्गात् / सिद्धान्ते तु ज्ञानसामान्यमात्मचैतन्यमेव / तच्च सदातनम'यज्ञानप्रयुक्तावरणप्रतिबंद्ध नाज्ञाननिवर्तकम् / सत्तावधारणापरोक्षवृत्त्या च प्रतिबन्धकावरणे निवृत्ते चिन्मात्रमेवा. ज्ञाननिवर्तकमिति तस्य ज्ञानसामान्यविरोधितोपपत्तिः, नाप्यतिप्रसङ्ग इति भावः / अपरोक्षवृत्त्यनुगतप्रकाशस्यैवाज्ञाननिवर्तकत्वेऽपि स्वरूपेणैव तद्योग्यतेत्येतत्पराभिमतोदाहरणेन द्रढयति-यथेति / ननु वृत्तिविशेषस्य चिन्मात्रस्य वा तन्निवर्तकत्वसंभवात्तस्य वृत्तिविशेषानुगतत्वकल्पनमप्रामाणिकमित्यत आह--न चैवमिति / एवं स्वमते ज्ञानसामान्यनिवर्त्यतयाऽज्ञानस्य तद्विरुद्धत्वमुपपाद्य परमतेऽभावतया तद्विरोधित्वासंभवात् तन्निवर्त्यतयैव तद्वक्तव्यमिति द्वितीयं परिशेषयित्वा दूषयतितत इति /