________________ द्वितीयः परिच्छेदः 131 वृत्त्यभिव्यक्तस्वरूपचैतन्यस्य कालान्तरेऽविद्यानिवर्तकत्वे मानाभावः। "तस्याभिध्यानाद् योजनात तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः" इति श्रुतेः / तस्मादनादि ज्ञाननिवर्त्यमज्ञानमिति सिद्धम् / भ्रान्तिपरिणाम्यज्ञानमिति केचित् / न च ब्रह्मण्यतिव्याप्तिः, असम्भवो वा। अज्ञानस्यैव परिणामित्वात्, ब्रह्मणस्तु कार्यसत्तात्मतयैवोपादानत्वात् / न चानुत्पादितभ्रमाज्ञानेऽव्याप्तिः। अज्ञानस्यैकत्वात् / अज्ञाने प्रमाणविचारः / तत्र च अहमज्ञो न जानामि इत्यनुभवः प्रमाणम् / तथा हि-न तावदस्य प्रागभावो विषयः। तस्यैवाभावात् / नापि ध्वंसः विशेषज्ञानस्य प्रागनुदयात, सामान्यज्ञानस्याज्ञानाप्रतियोगित्वात् / अव्यात्प्यादेरभावादुक्तलक्षणं सुस्थमित्याह तस्मादिति / एवं स्वसमानविषयज्ञानप्राक्कालव्यापिसत्ताकत्वे सति तनिवर्त्यत्वं स्वसमानविषयज्ञानासहकृतसामग्रययोग्यध्वंसप्रतियोगित्वं वा ज्ञानातिरिक्तागन्तुकदृष्टकारणायोग्यध्वंसप्रतियोगित्वं वा ध्वंसप्रतियोग्यजन्यत्वे सति स्वसमानविषयज्ञाननिवर्त्यत्वं वाऽज्ञानलक्षणम् / न चाविद्यासम्बन्धादावतिव्याप्तिः तस्य निर्विषयत्वात्, अविद्यानिवृत्तिरूपदृष्टकारण- . योग्यध्वंसप्रतियोगित्वाच्चेति द्रष्टव्यम्। भ्रमोपादानमज्ञानमित्यत्रोपादानशब्देन परिणामित्वं विवक्षितम् / तथा च नोक्तातिव्याप्त्यादिरित्याह-भ्रान्तीति / यदुक्तम् - अनुत्पादितभ्रमे घटाद्यज्ञानेऽव्याप्तिरिति, तदयुक्तम्। अज्ञानैकत्वमते एवास्य लक्षणस्योक्तत्वात् / तत्रानुत्पादितभ्रमाज्ञानाभावादित्यभिप्रेत्याह-न चेति / भ्रान्तिपरिणामित्वयोग्यताया वा तल्लक्षणत्वेन विवक्षितत्वाद् अवस्थाज्ञानवादेऽपि नाव्याप्तिरिति द्रष्टव्यम् / ____ एवं भावरूपाज्ञाने लक्षणं निरूय तत्र प्रमाणमपि निरूपयति-तत्र चेति / यदुक्तं ज्ञानाभाव एवैतदनुभवविषय' इति तद् दूषयितुमुपक्रमते-तथा हीति / किं ज्ञानप्रागभावोऽस्य विषयः तद्ध्वंसो वा ? नाद्य इत्याह-न तावदिति / द्वितीयेऽपि किं विशेषज्ञानस्य ध्वंसो विषयः सामान्यज्ञानस्य वा। आद्यमसंभवेन दूषयति-नापीति / द्वितीयं दूषयति-सामान्येति / सामान्यज्ञाने सत्यपीदं न जानामीत्यनुभूयमानाज्ञानस्य तदविरोधित्वान्न तद्ध्वंसतेत्यर्थः / अभ्युपेत्यापि प्रागभावं स नोक्तानुभव विषय इति वक्तुं तद्विषयमाह-किं चेति /