________________ . 130 सटीकाद्वैतदीपिकायाम् प्राथमिकवृत्तिसाक्षात्काराभिव्यक्तस्वरूपचैतन्यस्यैव प्रतिबन्धक्षये तन्निवर्तकत्वाच्च विक्षेपाभासशक्तिमदज्ञानांशस्य सत्त्वेऽप्यावरणशक्तिमदज्ञानांशस्यासत्त्वेन ब्रह्मचैतन्यस्य ततः परमभिव्यक्तकस्वरूपत्वात् / न चैवं कदाचिदुत्पन्नघटाकारवृत्त्यभिव्यक्तघटावच्छिन्नचैतन्यस्य कालान्तरेऽपि तवृत्ति विना तदज्ञाननिवर्तकत्वापत्तिरिति वाच्यम् / कालान्तरीयघटावच्छिन्नचैतन्यस्य पूर्वकालावच्छिन्नचैतन्याभिव्यञ्जकवृत्त्याऽनभिव्यक्तत्वात्, अज्ञानान्तरेणावृतत्वाच्च, ब्रह्मसाक्षात्कारस्य च सर्वात्मना चैतन्यव्यञ्जकत्वात् / न चैवमविषयस्याज्ञानस्य कथं निवृत्तिरिति वाच्यम् / विक्षेपातिशयेन सविषयत्वात् / आवरकाज्ञानं त्वावृत्तसाक्षात्कारादेव निवर्तते / न च पूर्वकालीन नन्वेवं सति घटाद्यवच्छिन्नचैतन्यस्यापि सकृदुत्पन्नसाक्षात्काराभिव्यक्तस्य सर्वदाऽवस्थानसंभवात्कालान्तरे तदज्ञाननिवृत्तये वृत्त्यन्तरापेक्षा न स्यादिति चेत् न / प्राथमिकवृत्तेर्घटमात्रविषयत्वेऽपि कालान्तरीयघटाविषयत्वान्न सर्वात्मना तदभिव्यञ्जकता। तथा च कालान्तरीयतदभिव्यक्तये वृत्त्यन्तरापेक्षा युक्तेत्याह-न चैवमित्यादिना / प्राथमिकवृत्त्याऽभिव्यक्तस्यापि तन्नाशेऽज्ञानान्तरेणावृतत्वात्पुनस्तदभिव्यक्तये वृत्त्यन्तरमावश्यकमित्यभिप्रेत्याह-अज्ञानान्तरेणेति / वेदान्तानां सर्वात्मना ब्रह्मबोधने समर्थत्वात्तज्जनितसाक्षात्कारः सर्वात्मना तदभिव्यञ्जक इत्याह-ब्रह्मति / मानाभावेन तदावरकाज्ञानान्तराभावाच्चेति द्रष्टव्यम् / अनावरकाज्ञानांशस्य ब्रह्माविषयत्वात्कथं तज्ज्ञानानिवृत्तिरिति शङ्कां हेत्वसिद्धया परिहरति -न चैवमिति / ननु घटादावावृतविषयकज्ञानादेवाज्ञाननिवृत्तिदर्शनात्कथमनावृतस्वरूपज्ञानात्तद्विषयकवृत्तेर्वाऽज्ञाननिवृत्तिः / इतरथा शुक्तीदमंशेविक्षेपहेत्वज्ञानस्य तज्ज्ञानान्निवृत्तिप्रसङ्गादित्यत आह--आवरकेति / रजतोपादानाज्ञानस्य शुक्तयावरकत्वात्तज्ज्ञानादेव निवृत्तिरित्यर्थः / प्राथमिकवृत्त्यभिव्यक्तचैतन्यस्य कालान्तरेऽज्ञाननिवर्तकत्वसंभवेऽपि न तत्र मानमस्तीत्यत आह-न चेति / तस्य शास्त्रयुक्तिभ्यां निश्चितस्याभिध्यानात्सजातीयप्रत्ययप्रवाहरूपात् प्रपञ्चे पारमार्थिकत्वभ्रमप्रयोजकविपरीतवासनाहेतुमायांशस्य निवृत्तिः / ततो युज्यतेऽनेनेति योजनम् असम्भावनाद्यसहकृतसाक्षात्कारस्तस्मात्प्रपञ्चे व्यावहारिकत्वभ्रमप्रयोजकावरमायांशस्य ततस्तत्त्वभावोऽभिव्यक्तब्रह्मात्मनाऽवस्थानं तस्मादन्ते प्रारब्धकर्मक्षये बाधितानुवृत्त्या प्रतिभासमानप्रपञ्चहेतुमायांशस्येत्येवं तदा सर्वमायानिवृत्तिरिति श्रुत्यर्थः / तदुत्तम् शास्त्रेण नश्येत्परमार्थरूपं कार्यक्षम नश्यति चापरोक्ष्यात् / प्रारब्धनाशात्प्रतिभासनाश एवं त्रिधा नश्यति चात्ममाया // इति /