________________ द्वितीयः परिच्छेदः 129 भवामिग्राहकमानबाधश्च / शुक्तयवच्छिन्नचैतन्यनिष्ठाऽज्ञानेऽव्याप्तिरप्यत एव निराकृता। तस्याप्यनादित्वात् ज्ञाननिवत्यत्वाच्च / अज्ञानकार्यस्यापि कर्मणो ज्ञानात्प्रबलस्य स्वोपादानांशाज्ञाननिवृत्तिप्रतिबन्धकत्वात् अनिर्वचनीयाज्ञानस्य सांशत्वनिरंशत्वप्रयुक्तदूषणाभावात् विदुषामपि शुकादीनां शरीरश्रवणेन प्रारब्धकर्मणो ज्ञानात्प्रबलत्वोपपत्तेः। न चान्तकालज्ञाननियमाभावात्कथं तस्य ज्ञानानिवृत्तिरिति वाच्यम् / जीवन्मुक्ते तदानीमपि वृत्त्यभ्युपगमे बाधकाभावात् / निवर्त्याज्ञानकार्यस्य दुर्बलत्वात्कथं पुनर्ज्ञानफलप्रतिबन्धकतेत्याशक्य तस्य ज्ञानोपजीव्यतया प्रतिबलत्वात्तदुपपत्तिरित्याह--अज्ञानेति / ननु निरंशस्याज्ञनस्य कथमेकांशस्य नाशेऽप्यपरांशस्य स्थितिः, सांशत्वे वा कथमकायंत्वमित्याशङ्क्याह--अनिर्वचनीयेति / अनिरूपितरूपाज्ञानस्य तादृशांशभेदो न विरुद्धयते / न चैवं तस्य कार्यत्वापत्तिः तदुत्पादकाभावादित्युक्तत्वादिति भावः / ननु प्रारब्धकर्मणो ज्ञानात्प्राबल्ये तत्फलप्रतिबन्धकत्वे च न किंचिद्गमकमस्ति, तदुपजीव्यत्वस्य तु तन्निवर्त्याज्ञानेऽपि सत्त्वेन तदनियामकत्वादित्यत आह-विदुषामिति / ननु सत्यपि ज्ञाने प्रतिबद्धत्वाच्चेदज्ञानलेशस्य न निवृत्तिः तहि तन्नाशसमये ज्ञानस्यैवाभावान्न तस्य ज्ञाननिवर्त्यतेत्याशङ्कां हेत्वसिद्धया दूषयति न चान्तकाल इति / प्रसादितपरमेश्वरे स्वयं तद्भावनुपगते जीवन्मुक्तेऽस्मंदादिवच्चरमकाले न ज्ञानाभावः कल्पयितुं शक्यः / तच्चित्तस्य प्रत्यक्प्रवणतया तदेकनिष्ठत्वात् तदुक्तं देहं च नश्वरमवस्थितमुत्थितं वा सिद्धो न पश्यति यतोऽध्यगमत्स्वरूपम् // इति / तथा प्रमाणकालेऽपि च मां ते विदुर्युक्तचेतसः / इति च। तथा च जीवन्नुक्तिकालीनाज्ञानस्याप्यन्तकाले ज्ञाननिवय॑त्वान्नाव्याप्तिरिति भावः / मतान्तरमाह-प्राथमिकेति / अयमर्थः - प्राथमिकवृत्तिसाक्षात्काराद् ब्रह्मचैतन्यमभिव्यज्यते। अभिव्यक्तं च चैतन्यमावरकाज्ञानांशं निवर्तयतीति तदनन्तरं चावरणाभावात्सवंदाऽभिव्यक्तमेवेति तदेवान्तकाले वृत्त्यभावेऽपि प्रतिबन्धककर्मनाशाद्विक्षेपोपादानाज्ञानांशं निवर्तयतीति / तदुक्तं-"तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन्देहं ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः" इति /