________________ 128 सटीकाद्वैतदीपिकायाम् न चाज्ञानप्रतिभासे साक्षिणि सति कथं तन्निवृत्तिरिति वाच्यम् / घटादिप्रतिभासे त्वदभिमतेश्वरज्ञाने सत्येव तव मते घटादिविनाशवत्कल्पिताज्ञाननिवृत्तेरपि ममाविरुद्धत्वात् / अज्ञानस्य प्रतिभासमात्रशरीरत्वम् ज्ञानदशायामेव विद्यमानत्वं न तु ज्ञानमात्रत्वम् / अतिरिक्तज्ञेयाभ्युपगमात् / ततश्चानादिभावत्वेनाज्ञानस्य ज्ञानानिवर्त्यत्वानुमानमनुभवविरुद्धम्, उदाहृतश्रुतिभगवद्वचनविरुद्धं च, अनुकूलतर्काभावादप्रयोजकं च / अस्मदभिमताज्ञानस्य न जानामीति ज्ञानविरुद्धतयवानु साक्षिणि सति तन्निवृत्त्ययोगादिति तदूषयति-न चाज्ञानेति / प्रतिभासमात्रशरीरस्थाज्ञानस्य सति प्रतिभासे कथं निवृत्तिरित्याशङ्क्याह--अज्ञानस्येति / प्रतिभासमात्रशरीरशब्देनाज्ञानस्य वियदादिवन्नाज्ञातसत्ताकत्वं किं तु सुखादिवत् ज्ञायमानसत्ताकत्वं विवक्षितं न तु प्रतिभासरूपत्वं दृग्दृश्ययोर्भदाङ्गीकारादित्यर्थः / भावरूपाज्ञानादन्यस्य ज्ञाननिवर्त्यत्वासंभवात्तस्य तदनिवर्त्यत्वसाधकानुमानं बाधितविषयमित्याह-ततश्चेति / अनादिभावस्यापि विरोधिसन्निपाते सति नाशोपपत्तेस्तदुक्तहेतूनामप्रयोजकता चेत्याहअनुकूलेति / यच्चोक्तमनादिभावत्वादात्मवद्विरोधिसन्निपात एव नेति, तबाह - अस्मदभिमतेति / एवमसम्भवं निरस्याव्याप्तिं निराकरोति--शुक्त्यवच्छिन्नेति / उत्पत्तेः पूर्व सतोऽसतो वा कार्यत्वायोगात्तदाऽपि कार्यमनिर्वचनीयसूक्ष्मरूपेण दर्तत इति तदवच्छिन्नचैतन्यस्याप्यनादित्वात्तन्निष्ठाज्ञानेऽपि तदुपपत्तिरिति परिहरतिन पूर्वमिति / यदुक्तं--शुद्धं ब्रह्म वृत्तिव्याप्यमपि नेति मते मूलाज्ञानस्य' ज्ञाननिवर्त्यत्वायोगात्तत्राव्याप्तिरिति, तदपवदति--शुद्धमिति / अनङ्गीकारेति / स्वप्रकाशस्यापि जडवृत्तिविषयत्वे बाधकाभावात् चरमवत्तरपि न विषयान्तर्भावः किं तु बाह्यासती सा ब्रह्म विषयीकरोति व्यासाश्रमैरेवोक्तत्वाच्चेति भावः। ज्ञानकालीनाविद्यालेशेऽन्युत्तामव्याप्ति परिहरति--नापीति / तस्य ज्ञानविवर्त्यत्वे परोक्त दोषमपवदति-न चेति / प्राथमिकसाक्षात्कारेण संचितकर्मावस्थाननिमित्ताज्ञानलेशस्य नाशेऽपि न प्रारब्धकर्मोपादानाज्ञानलेशस्य नाशः / तस्य प्रारब्धकर्मभिः प्रतिबद्धत्वात् / प्रतिबन्धके सति सामग्रयां सत्यामपि कार्यायोगात् / भोगेन प्रारब्धकर्मनाशे ज्ञानादेव तस्यापि नाश इत्यभिप्रेत्याह-- तदा तस्येति / विषयावभासात्मनो विज्ञानस्य कथं कार्ये प्रतिबन्ध इत्याशक्य स्वयूथ्यं प्रति दृष्टान्तमाह--विपरीतेति / शास्त्रादिति / पदपदार्थव्युत्पत्तिमतः अधीतयेदान्तादित्यर्थः / बिंबसाक्षात्कारेसति उपाधिना प्रतिबन्धात्प्रतिबिम्बादिक्रमो यथा न निवर्तत इति परं प्रत्युदाहार्यम् / क्षुद्रफलस्य कर्मणः कथं निःश्रेयसप्रतिबन्ध त्वमित्याशवयाहक्षुद्रस्यापीति / कर्मप्रतिबन्धक ववदिति / कर्मफलप्रतिबन्धक त्ववदित्यर्थः / इतरथाऽश्व. मेधाहा गुष्ठानानन्तरमेव ब्रह्मलोकादिप्राप्तिप्रसङ्ग इति भावः /