________________ द्वितीयः परिच्छेदः . 127 एवं ब्रह्मविषयाज्ञानस्याप्यनुमानादनादित्त्वम् / अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः / ____ ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः / इति सर्वेश्वरवचनेन तदनुमिततदीयप्रत्यक्षेण च ज्ञानानिवृत्तिरिति नासंभवः / एवम् “अनादिमायया सुप्तः" "तरत्यविद्यां विततां" "भूयश्चान्ते विश्वमायानिवृत्तिः' इत्यादिशास्त्रादपि ब्रह्मविषयाज्ञानस्यानादित्वं ज्ञाननिवर्त्यत्वं च सिद्धचति / अत एवाज्ञानपदमपि ज्ञानविरुद्धमज्ञानमिति योगेनानादिभावरूपाज्ञानमेवाभिधत्ते। तदन्यत्र योगासंभवात् / क्लप्तयोगे सत्यर्थान्तरे रूढेरकल्प्यत्वात्। ननु मिथ्याज्ञानमपि ज्ञानविरुद्ध विशेषदर्शने सति तदनुत्पादादिति चेत् न / "अज्ञानेनावृतं ज्ञानं" "ज्ञानेन तु तदज्ञानं येषां नाशितं" "ज्ञानेनाज्ञानं निवृत्तम" इत्यादिशास्त्रलौकिकप्रयोगयोरावरणे ज्ञाननिवर्त्य एव दर्शनात्तस्यैव तदर्थत्वात् / मायाविद्ययोरभेदान्मायायाश्चानादित्वादेः श्रवणादप्युक्तलक्षणसिद्धिरित्याहएवमिति / अस्मदभिमताज्ञान एव यौगिकार्थसम्भवाल्लोके वेदे चाज्ञानपदस्य स एवार्थ इत्याह-अत एवेति / ज्ञानप्रागभावादावपि योगसंभवात् स एव तदर्थोऽस्त्वित्याशङ. क्याह- तदन्यत्रेति / किं ज्ञानान्यत्वमवयवार्थः ज्ञानविरुद्धत्वं वा ? नाद्यः, अतिप्रसक्तः त्वात् / न च प्रयोगप्राचुर्यात्पङ्कजादिपदवत्प्रतीतिनियम इति वाच्यम्। तत्र कथमपि व्यवस्थितार्थाभावात्प्रयोगप्राचुर्याश्रयणस्यागतिकगतित्वान् / संभवति चात्र ज्ञानविरुद्धाथंपरिग्रहे व्यवस्थितोऽर्थः / न द्वितीयः। प्रागभावस्यैवासत्त्वात्, तत्र ज्ञानविरुद्धत्वायोगात् / तदभ्युपगमेऽपि ज्ञानत्वेन ज्ञानविरुद्धत्वस्याज्ञानशब्दार्थस्य तत्रासंभवात् / प्रतियोगितयैव ज्ञानस्य तद्विरोधित्वात् / तथा भ्रान्तिज्ञानेऽपि न ज्ञानविरोधित्वं तस्य ज्ञानादन्येनापि निवृत्तेः / यस्य तु ज्ञानमेव निवर्तकं तत्रापि प्रत्यक्षात्मधर्मत्वेनैव ज्ञानस्य तद्विरुद्धत्वमिति न ज्ञानत्वेन तद्विरोधिता। तस्मा इस्मदभिमताज्ञानमेव ज्ञानत्वेन तद्विरुद्धत्वादज्ञानशब्दार्थ इति भावः / ननु ज्ञानप्रागभावादावज्ञानपदस्य रूढिरेवास्त्वित्यत आह-क्लृप्तेति / __ भ्रान्तिज्ञानस्य ज्ञाननिवर्त्यत्वरूपेण तद्विरुद्धत्वाभावेऽपि तस्मिन्सत्त्यनुत्पत्तेस्तद्विरुद्धत्वमिति शङ्कते-नन्विति / सर्वत्र कार्यानुत्पत्तेः कारणाभावप्रयुक्तत्वाद्विशेषदर्शनमपि बिशेषादर्शनरूपकारणाभावत्वेनैव भ्रान्त्यनुत्पादे प्रयोजकं न ज्ञानत्वेन / तथा च ज्ञानत्वेन तद्विरुद्धता नास्त्येवेत्यभिप्रेत्याह-नेति / किं च लोकशास्त्रयोरज्ञानपदस्य ज्ञाननिबर्त्य एव प्रयोगप्राचुर्यान्निवर्त्यतयैव तद्विरुद्धमज्ञानपदार्थ इत्याह-अज्ञानेति / यदुक्तमज्ञानप्रतिभासे