________________ 126 सटीकाद्वैतदीपिकायाम् ज्ञानस्य प्रागभावनिवृत्तिरूपत्येन तस्य तदनिवर्त्यत्वाच्च / ततश्च लोके भ्रमकारणत्वेन ज्ञाननिवर्त्यत्वेन प्रसिद्धमज्ञानं पराभ्युपेतप्रागभावभ्रान्त्यतिरिक्तमित्यभ्युपेयम् / तच्चानादि अकारणकत्वात् आत्मवत् / न चासिद्धिः मिथ्याज्ञानातिरिक्तस्याज्ञानस्य कारणानिरूपणात्, जन्यत्ने गौरवाच्च तदसिद्धः / अत एव नाप्रयोजकत्वम् / तथा च घटाद्यज्ञानस्यानुमानेनानादित्वां प्रत्यक्षेण ज्ञानान्निवृत्तिश्वानुभूयते। __ [ननु कथं कार्यावच्छिन्नचैतन्यनिष्ठाज्ञानमनादीति चेत् / न, पूर्वमपि कार्यस्यानभिव्यक्तरूपेण स्थितत्वात्। शुद्धं ब्रह्म वृत्तिव्याप्यं नेत्येतत्त्वनङ्गीकारपरास्तम् / नापि जीवन्मुक्तिकालीने अज्ञानेऽव्याप्तिः। तस्याप्यनादित्वात्, ज्ञाननिवर्त्यत्वाच्च। न च तस्य ज्ञाननिवर्त्यत्ने प्राथमिकसाक्षात्कारादेव निव त्यापात इति वाच्यम् / तदा तस्य प्रारब्धकर्मप्रतिबद्धस्य तदवस्थाननिमित्ताविद्यालेशानिवर्तकत्वात् / विपरीतज्ञानजन्यवासनायाः शास्त्रात प्रथममुत्पन्नात्मसाक्षात्कारफलाविद्यानिवृत्तिप्रतिबन्धकत्ववत् क्षुद्रस्यापि प्रारब्धकर्मणो महत्तराश्वमेधादिकर्मप्रतिबन्धकत्ववच्च / इदं शोधपत्रं द्रष्टव्यम् / ] पपत्तेर्न कारणापेक्षा / तस्यापि कार्यत्वे तत्तत्कारणत्वेनानन्ताज्ञानकल्पनागौरवमित्यर्थः / तदसिद्धेरिति / अज्ञानकारणासिद्धेरित्यर्थः / न च मूलाज्ञानमेवानादि तत्कारणमस्त्विति वाच्यम् / तस्य कार्यत्वे मानाभावेन कारणापेक्षाया एवाभावात् / ननु रज्वाद्यवच्छिन्नचैतन्यस्थाज्ञानस्य रज्वाद्युत्पत्तेः पूर्वमवस्थानानुपपत्तेः कार्यत्वमावश्यकमिति चेत् न / रज्ज्वादिनाशानन्तरमिव तदुत्पत्तेः पूर्वमप्यव्याकृततदवच्छिनचैतन्ये तदवस्थानोपपत्तेरिति भावः / सादित्वे मानाभावाद्गौरवाच्चाप्रयोजकता नेत्याह-अत एवेति / एवमवस्थाज्ञाने प्रमाणद्वयेनोक्तलक्षणं सिद्धमित्याह-ज्ञानान्निवृत्तिश्चेति / तदन्यथानुपपत्त्या भावत्वं चेत्यपि द्रष्टव्यम् / शुक्तेरागन्तुकत्वेन तदवच्छिन्नचैतन्यस्यापि तथात्वात्तन्निष्ठाज्ञानस्यानादित्वमसंभवीति शङ्कतें नन्विति / उक्तानुमानात्स्मृतितन्मूलप्रत्यक्षाभ्यां च मूलाज्ञानेऽपि समग्रं लक्षणं सिद्ध्यतीत्याह-एवमिति /