________________ द्वितीयः परिच्छेदः 125 अभावान्तरे तददर्शनात् / अन्यत्रादृष्टस्यापि प्रमाणबलादत्रैव कल्पनं तु नाज्ञानेपि मूषिकभक्षितम् / किं तत्प्रमाणं यबलादनादिभावस्यापि निवृत्तिरिष्टेति चेत्___ उच्यते रज्ज्वाद्यज्ञाने सति सर्पस्तदभावे नेत्यन्वयव्यतिरेकाभ्यामज्ञानात् भ्रम इत्यनुभवात् / भ्रमे च जानामीत्यनुभवेन ज्ञानत्वस्यैव सत्त्वात् / भ्रमस्याज्ञानत्तो तद्विषयसर्पस्य न जानामीत्यनुभवप्रसङ्गात् भ्रान्त्यतिरिक्तं तत्कारणमेव अज्ञानम् / एवं ज्ञाने सति अज्ञानाननुभवात् असति च तस्मिन नियमेन न जानामीत्यनुभवात् ज्ञानादज्ञानं निवृत्तमित्यनुभवाच्च ज्ञाननिवत्यं तद्भमादतिरिक्तं च / ननु भ्रमोऽपि ज्ञाननिवयॊ भवतीति चेत् न। भ्रमस्य ज्ञानादन्येनापि निवृत्तेनिकानिवर्त्यत्वात् / अज्ञानस्य च यावत् ज्ञानमवस्थायिनो नियमेन ज्ञाननिवर्त्यत्वात् / भ्रान्तिनिवृत्त्यनन्तरमपि किं तदिति जिज्ञासादर्शनाच्च न भ्रान्तिरज्ञानम् / अज्ञातं हि तहि जिज्ञास्यते / प्रागभावश्च नेत्युक्तम् / परमते द्यनुभवस्य भ्रान्तिज्ञानप्रागभावादिरूपाज्ञानविषयत्वसंभवादनादिभावरूपाज्ञाननिवर्त्यत्वे न किञ्चिन्मानमिति चोदयति-किं तदिति / भ्रान्त्याद्यतिरिक्तमेवाज्ञानं ज्ञाननिवर्त्यतया भाति, तच्चानादीति वक्तुं तस्य ततो भेदमाह-ज्वाद्यज्ञान इति / अत्रत्यहेतुचतुष्टयस्थापि भ्रान्त्यतिरिक्तं तत्कारणमेवाज्ञानमित्युत्तरेणान्वयः। अन्वयव्यतिरेकाभ्यामित्यनेनाज्ञानस्यार्थाध्यासात् कार्यकारणभावेन भेद उक्तः / ज्ञानाध्यासाद् भेदे हेतुमाह-अज्ञाना दति / पुरोवर्तिनं सर्पतया जानामीति भ्रान्तौ ज्ञानत्वानुभवान्न तदज्ञानमित्याह-भ्रमे चेति / किं च रज्जुं न जानामीतिवत् सर्प न जानामीत्येवानुभवः स्यादित्याह-भ्रमस्येति / अज्ञानस्य नियमेन ज्ञाननिवर्यत्वाद् भ्रमाद्भेद इत्याह--एवमिति / भ्रमस्याप्यधिष्ठानज्ञाननिवर्त्यत्वात् ज्ञाननिवर्त्यत्वं कथमज्ञानस्य ततो भेदकमिति शङ्कते-नन्विति / इच्छादिनाऽपि भ्रमनिवृत्तेनियमेन निवर्त्यत्वं तस्थ नेत्याह--न भ्रमस्येति / अज्ञानेऽपि नियमेन ज्ञाननिवर्त्यत्वमसिद्धमित्याशङ्क्याह--अज्ञानस्येति / नायं सर्प इत्याप्तोपदेशाद् भ्रमनिवृत्तावपि किं तदिति जिज्ञासादर्शनात् तदा तन्मूलमज्ञानमावश्यकमिति भ्रमातिरिक्तमेवाज्ञानमित्याह--भ्रान्तीति / तहिं ज्ञानप्रागभाव एव ज्ञाननिवर्त्यमज्ञानमित्यत आह--प्रागभावश्चेति / ज्ञानप्रागभावस्य ज्ञाननिवर्त्यत्वं चानुपपन्नमित्याह--परमत इति / तव पराभिमताज्ञानविलक्षणं रज्ज्वाद्यज्ञानं लोक एव तावत् सिद्धमित्याह--ततश्चेति / तस्यानादित्वे मानमाह--तच्चेति / तस्याप्यज्ञानान्तरमेव कारणमित्याशङ्क्याह-जन्यत्व इति / अज्ञानकारणज्ञानस्यानादित्वे प्रथमस्यैव तथात्वो